________________ 1010 नैषधमहाकाव्यम् / भोक्तुम् अपारयद्भिः, जनान्तरैरिति शेषः / यथा व्यञ्जनपुञ्जराजयः शाकमांसाद्यपकरणराशीनां श्रेणयः, उज्झ्यन्ते इति शेषः, बहुलपरिवेषणादिति भावः / तथा एभिः भोक्तृभिः जन्यजनैरपि, रम्याः तमणीयाः, परिवेषिकाः परिवेषणकारिण्यः तरुण्यः, निरीक्ष्य विलोक्य एव, अवाप्ततृप्तिभिः तावतैव 'तृप्तैः सद्भिः, व्यञ्जनपुञ्जराजयः उज्झिताः त्यक्ताः, न भुक्तं न खादितं, 'ध्रुवम् इत्युत्प्रेक्षायाम् , अन्यथा कथमेते भोज्यराशयः पात्रेषु तथैव दृश्यन्ते इति भावः // 104 // ___ बहुत भोजन करनेसे ( थालमें परोसे गये सब व्यअ नोंको भोजन करनेमें ) असमर्थ इन ( भोजन करनेवाले बरातियों) ने व्यञ्जन-समूहके ढेरोंको जैसा छोड़ दिया है, उससे ऐसा ज्ञात होता है कि परोसनेवाली सुन्दरियोंको देखकर तृप्त हुए इन लोगोंने मानों भोजन किया ही नहीं है / [ भोजनकर्ता बरातियों ने बहुत-से भोज्य पदार्थोंको नहीं खा सकने के कारण बहुत मात्रामें जूठा छोड़ दिया ] // 104 / / पृथकप्रकारेङ्गितशंसिताशयो युवा ययोदासि तथाऽपि तापितः / ततो निराशः परिभावयन् परामये ! तयाऽतोषि सरोषयैव सः // 10 / / पृथगिति / यया स्त्रिया, पृथक्प्रकारेगितसंशिताशयः नानाविधचेष्टाप्रकाशिता. भिप्रायः, युवा कश्चित्तरुगः, उदासि प्रतीङ्गिताद्यकरणेन औदासीन्यं प्रापित इत्यर्थः, तयाऽपि रोषात् अनादरपरया अपि तयव स्त्रिया, तापितः सन्तापितः दुःखं प्रापितः इत्यर्थः, प्रतीङ्गितादर्शनेन स्वाभीष्टलाभनैराश्यात् दुःखितोऽभुदिति भावः, यो यत्रो. दासीनः तस्य तदलाभजन्यं दुःखं न भवति, प्रकृते तु तस्यामुदासीनस्यापि तयैव जनितमिति विरोधार्थकोऽपिशब्दः, ततः औदासीन्यात् , निराशः तत्प्राप्ती हताशः सन् , पराम् अन्यां, परिभावयन् इङ्गितादिना विभावयन् , सानुरागमवलोकयन् इति यावत्, सः युवा, सरोषया अन्यावलोकनरुष्टया, तयैव पूर्वया एव, अतोषि तोषितः, न तु द्वितीयया इति भावः, तोषयतेः कर्मणि लुङ / अये इति आश्चर्ये, औदासीन्यं जनयित्र्याऽपि दुःखं जनितं सरोषयव सन्तोषो जनित इति विरुद्धार्थद्वयसमावेश आश्चर्यकर इत्यर्थः। पूर्वया तदनुरक्तयाऽपि 'जनसमक्षमिङ्गितादिकरण. मयुक्तमिति बुद्धया पूर्व प्रतीङ्गिन्तादिना न सम्भावितः, अत एव युवा दुःखितः, किन्तु तस्या गूढाभिप्रायमज्ञात्वा इयं मय्यनुरागिणीति निश्चित्यान्यां प्रति तस्मिन् सानुरागं विलोकयति सति तदर्शनेन पूर्वा सा सरोषा जाता, सानुरागैव सरोषा भवतीति व्याप्तेः तस्या रोषदर्शनेनानुरागमनुमाय स सन्तुष्ट इति भावः // 105 // ___ अनेक प्रकारकी चेष्टाओंसे अपने अभिप्राय ( अनुराग) को बतलानेवाले युवकको ( उसके प्रति संकेतसे अपना अभिप्राय नहीं बतलानेवाली ) जिस स्त्रीने उदासीन कर दिया और उससे सन्तप्त ( यह स्त्री मुझे नहीं चाहती इस भावनासे दुखित ) हुआ, इसके बाद निराश होकर दूसरी स्त्रीको सानुराग देखते हुए उस युवकको क्रोधयुक्त उसी (पहली )