________________ 662 नैषधमहाकाव्यम् / व्यधुस्तमां ते मृगमांससाधितं रसादशित्वा मृदु तेमनं मनः | निशाधवोत्सङ्गकुरङ्गजैरदः पलैः सपीयूषरसैः किमपि ? / / 76 / / व्यधुस्तमामिति / ते जन्याः, मृगमांसेन हरिणमांगेन, साधितं निष्पादितं, मृदु कोमलं, तेमनं व्यञ्जनम् 'तेमनं व्यञ्जने क्लेदे' इति हेमचन्द्रः / रसात् रागात् , साग्रहमित्यर्थः, अशित्वा आस्वाद्य, अदः इदं तेमनं, निशाधवस्य निशापतेः इन्दोः, उत्सङ्गे क्रोडे, यः कुरङ्गः मृगः; तज्जैः तत्सम्बन्धिभिः, अत एव सपीयूषरसः अमृतद्रवमिश्रितैः पलैः मांसः, अश्रपि किम् अपाचि किम् ? पाकार्थात् श्राधातोः ण्यन्तात् कर्मणि लुङ्, घटादित्वात् मित्वात् हस्वः / इति मनो मतिं, व्यधुस्तमाम् अतिशयेन विदधुः इत्युत्प्रेक्षितवन्तः इत्यर्थः / दधातेलुंडि 'तिङश्च' इति तमपप्रत्ययः, ततः 'किमेत्तिङव्ययघादा-' इति आमुप्रत्ययः // 76 // उन बरातियोंने मृग-मांससे बनाये गये व्यजनविशेषको खाकर 'यह ( व्यञ्जन ) चन्द्रमाके कोडमें रहने वाले हरिणके अमृतयुक्त मांससे पकाया गया है क्या ?' ऐसा मनमें अच्छी तरह सोचा [ यहांपर 'अच्छी तरह सोचा' ऐसा कहनेसे बरातियोंको अच्छी तरह सोचकर भी यह निर्णय नहीं हो सका कि वास्तविकमें यह व्यञ्जन चन्द्रस्थ मृगमांससे बना है या वन्य मृगमांससे ?' अत एव उसका अधिकतम स्वादु होना सूचित होता है ] / / 76 / / परस्पराकूतजदूतकृत्ययोरनङ्गमारा मपि क्षणं प्रति / निमेषणेनैव कियच्चिरायुषा जनेषु यूनोरुदपादि निर्णयः / / 77 / / परस्परेति / परस्परस्य आकूतात् / अभिप्रायावेदकनयनादिचेष्टाविशेषात् , जातं निवृत्तं, दूतकृत्यं सम्भोगसम्मतिविषयक प्रश्नोत्तरपरिज्ञानरूपं दौत्यकार्य ययोः तादृशयोः, संज्ञाभिरेव कृतसमागमनिश्चययोरित्यर्थः, यूनोः कयोश्चित् तरुणयोः स्त्रीपुंसयोः, अनङ्गं कामम्, आराधैं सेवितुं, रन्तुमित्यर्थः, क्षणं कालं प्रति, निर्णयोऽपि निश्चयोऽपि, समागमकालनिर्धारणमपीत्यर्थः, जनेषु जनमध्ये एव, कियच्चिरायुषा किञ्चिद्दीर्घकालावस्थायिना, निमेषणेनैव नयननिमीलनेन एव, साधारणनिमेषकालापेक्षया किञ्चिदधिककालव्यापिना नेत्रमुद्रणकरणेनैवेत्यर्थः, उदपादि उत्पन्नः उत्पद्यतेः कर्तरि लुङ 'चिण ते पदः' इति चिण / एतेषु निद्रितेवेव आवयोः समागमः भवेत् इति कालनिश्चयोऽपि नेत्रनिमोलनरूपसंज्ञयैव कृतः इति भावः // 77 // परस्पर चेष्टाओंस ही दूतकार्य ( सम्भोग-विषयक सम्मति ) को पूर्ण किये हुए किसी युवक तथा युवतीके कामाराधन ( सुरत ) करने के लिए समयके प्रति निर्णय भी लोगोंके बीचमें कुछ विलम्ब तक किये गये निभेष ( नेत्र बन्द करने ) से ही हो गया / [ उन दोनों युवक तथा युवतीने पहले परस्पर चेष्टाओंसे सम्भोग करनेका निर्णय विना दूतके ही कर लिया और बादमें कुछ देरतक नेत्र बन्द करके सुरत-समयका भी निर्णय कर लिया अर्थात् लोगों के बीचमें ही उक्त प्रकारसे कुछ देरतक नेत्र बन्द करनेसे यह सङ्केत कर लिया कि. इन लोगों के सो जानेपर हम दोनों सुरत करेंगे ] // 77 / / .