________________ षोडशः सर्गः। 191 सितं मृदु प्रागथ दाहदायि तत खलः सुहृत्पूर्वमिवाहितस्ततः / / 74 / / वियोगीति / वियोगिनां प्रियवियुक्तानां, दाहाय सन्तापाय, कटूभवन्त्यः तीचणीभवन्त्यः, स्विषः प्रभाः यस्य तादृशस्य, तुषारभानोः चन्द्रस्य, खण्डं शकलम्, आहृतम् आनीतम् इव स्थितम् इत्युत्प्रेक्षा। सितं शुभ्रं, प्रभूतदधिसंयोगादितिभावः। तत् राजसर्षपमिश्रं व्यञ्जनं, पूर्वम् आदौ, सुहृत् आप्तः, ततः पश्चात्, कार्यकाले इत्यर्थः, अहितः अनाप्तः, खलः दुर्जन इव, इत्युपमा, प्राक आदी, स्पर्शकाले इत्यर्थः, मृदु कोमलम्, अथ पश्चात् , मुखे प्रक्षेपानन्तरमित्यर्थः, दाहदायि कटुरसातिरेकात् जिह्वादेर्दाहकारि, बभूव इति शेषः // 74 // विरहियोंके सन्तापके लिए तीक्ष्ण कान्तिवाले चन्द्रमाके टुकड़ेके समान लाये गये ( अथवा-लाये गये चन्द्रखण्डके समान स्थित ) श्वेत वर्ण पहले ( स्पर्श-क्षणमें ) कोमल तथा बादमें ( मुख में डालनेपर अतिकटु होनेसे ) दाहकारक पहले मित्र तथा बादमें शत्रु बने हुए खलके समान हुआ ( अथवा-उस रायोके बने व्यञ्जनको किन्हीं बरातियोंने नहीं भोजन किया ऐसा पूर्व (1673 ) श्लोकसे सम्बन्ध समझना चाहिये ) / / 74 / / नवौ युवानौ निजभावगोपिनावभूमिषु प्राक् प्रहितभ्रमिक्रमम् / दृशोविधत्तः स्म यहच्छया किल त्रिभागमन्योऽन्यमुखे पुनः पुनः // 7 // नवाविति / नवौ बाल्ययौवनयोः सन्धौ वर्तमानौ, अत एव निजभावगोपिनौ लज्जावशात् स्वाभिप्रायं स्पष्टमप्रकाशयन्ती, युवानी युवतिश्च युवा च तौ, 'पुमान् स्त्रिया' इत्येकशेषः / प्राक् प्रथमम्, अभूमिषु अन्यविषयेषु, दर्शनायोग्येषु इत्यर्थः, नमर्थन नजसमासः। प्रहितभ्रमिक्रम कृतसञ्चारप्रकारं, विषयान्तरेषु इतस्ततः प्रवर्तितम् इत्ययः, दृशोः नयनयोः, त्रिभागं तृतीयभागम्, अपाङ्गदर्शनम् इत्यर्थः, 'वृत्तिवि. षये सङ्ख्याशब्दस्य पूरणार्थत्वम्' इति कैयटः / पुनः पुनः वारं वारम्, अन्योऽन्यस्य परस्परस्य, मुखे वदने, यदृच्छया किल अनिच्छयैव, किल इत्यलीके, इच्छापूर्वकमेव इत्यस्य तात्पर्यम् / विधत्तः स्म निचिक्षिपतुरित्यर्थः, आदौ हिया विषयान्तरदर्शनव्याजादेव अन्योऽन्यमुखम् अपाङ्गदृष्टया पुनः पुनर्दशतुरिति चतुःप्रीत्याख्या प्रथमावस्थेषा // 75 // नये (शैशव तथा यौवनावस्थाके मध्यमें वर्तमान, अत एव लज्जाके कारण) अपने भाव ( पारस्परिक अनुराग ) को छिपानेवाले युवती तथा युवकने पहले अयोग्य ( अपने उद्देश्यसे हीन, या-अपने देखने के अयोग्य या-लोक व्यवहारके अयोग्य किन्हीं अन्य ) वस्तुओंको कटाक्षपूर्वक देखा तथा बादमें परस्परके मुखको देखा। [नयी उम्र होनेसे लज्जावश वे युवती तथा युवक सहसा एक दूसरेके मुखको नहीं देख सके, अतः पहले उद्देश्यहीन पदार्थोंको देखने के बाद परस्परके मुखको देखा / उनका अभिप्राय यह रहा कि-दूसरे लोग ऐसा समझें कि ये दोनों अन्य पदार्थोके समान ही परस्परमें एक दूसरेके मुखको भी स्वभावतःही देखते हैं, अनुरागसे नहीं देखते ] // 75 //