________________ 15 नैषधमहाकाव्यम् / शेन बाल्ययौवनयोः सन्धिरूपवयोऽधीनतया, स्तोकविकस्वरस्तनीम् ईषदुद्भिन्नकुचमण्डलां, काञ्चित् बालामिति शेषः / तिरस्तिरः दृशा तिरश्चीनदृष्टया, वक्रकटा. तेणेत्यर्थः / चुम्बति साग्रहं पश्यति सतीत्यर्थः / गुरुस्तनी पृथुस्तनी, अपरा अन्या, काचित् स्त्रीति शेषः / ह्रीणतरा अतिशयेन हीणा लजिता, अतिशयलज्जिता सती. त्यर्थः / चुद्रस्तन्यां बालिकायामनुरागदर्शनात् पृथुस्तन्यां स्वस्यां तस्यारुचित्वबुद्धया अतिसलज्जत्वं युक्तमिति भावः / ह्रीधातोः 'कालात्' इति तरप, 'नुदविद-' इत्यादिना पक्षे निष्ठानत्वं, 'तसिलादिष्वाकृत्वसुचः' इति पुंवद्भावः / स्वयमात्मनेव, त्रस्तं गलितं, किल इति अलीके, स्वस्थानात् भ्रष्टमिव जातमित्यर्थः। इति उरःस्थं वक्षःस्थितम् , अम्बरं वसनम् , उत्तरीयमित्यर्थः। आदधे स्वेच्छया स्वस्थानादपसारितं कृत्वा पुनराच्छादनाथं यथास्थानं निदधे / तुद्रस्तनी प्रति हृदयावरणसंकेतं स्वकीयहृदयावरणनिधानेन ज्ञापयामास, अथवा अहं पीवरस्तनी तवोपभोगक्षमेति बुद्धया स्तनयुगं दर्शयामासेति भावः // 69 // अवस्था ( बाल्य तथा युवावस्थाके सन्धिकालकी उम्र ) के वश थोड़ा उठते हुए स्तनवाली ( मुग्धा स्त्री ) को तिच्छी-तिच्छी दृष्टि से युवकके देखते रहने पर अर्थात् अनु. रागवश कटाक्षपूर्वक देखनेमात्रसे चुम्बनमुखका अनुभव करते रहने पर विशाल स्तनोंवाली दूसरी ( प्रौढा ) स्त्री अधिक लज्जित होकर स्तनोंसे स्वयं कपड़ेको हटाकर फिर उससे स्तनोंको ढक लिया। [ 'यह युवक लघुस्तनी मुग्धा से अनुराग करता है, पृथुस्तनी सम्भोगसमर्था मुझसे नहीं' अत एव अपने विशाल स्तनों को दिखाने के अभिप्रायसे यथास्थान स्थित वस्त्रको भी हटाकर पुनः स्तनोंको ढक लिया / अथवा-उस मुग्थाको सङ्केत किया कि'तुम अपने स्तनोंको अच्छी तरह ढक लो'। ऐसे अवसरपर कुछ स्पष्ट कहना अनुचित होनेसे सङ्केतमात्रसे उस मुग्धाको स्तनोंको ढकनेके लिए उस प्रौढाने सचेत कर दिया ] // 69|| यदादिहेतुः सुरभिः समुद्भवे भवेत्तंदाज्यं सुरभि ध्र वं ततः / वधूभिरेभ्यः प्रवितीर्य पायसं तदोघकुल्यातटसैकतं कृतम् // 70 // यदिति / यत् यस्मात् कारणात् , समुद्भवे उत्पत्ती, सुरभिः गौः, सुगन्धिः पदार्थश्च / 'सुरभिर्वाच्यवत् सौम्ये सुगन्धौ गोषु योषिति' इति यादवः। आदिहेतुः मूलकारणं, ततः कारणातू , तत् आज्यं घृतं, सुरभि सुगन्धि, भवेत् , 'कारणगुणाः कार्यगुणमारभन्ते' इति सुरभिसूतस्य सुरभित्वं युक्तमिति भावः / ध्र वमित्युत्प्रेक्षा. याम् / वधूभिः परिवेष्ट्रीभिः, एभ्यः जन्यजनेभ्यः, पायसं परमान्नं, पयसि संस्कृतमन्नमित्यर्थः / 'परमानन्तु पायसम्' इत्यमरः / 'संस्कृतं भक्षाः' इत्यणप्रत्ययः / प्रवितीर्य दत्त्वा, परिवेष्येत्यर्थः / तस्य सुरभ्याज्यस्य, ओघः प्रवाहः एव, कुल्या कृत्रिम सरित् , तस्याः तटे तीरदेशे, सैकतं सिकतामयं पुलिनं, कृतं रचितमिति रूपकम् / 1. 'यदाज्यमित्येव पाठः इति 'प्रकाश'।