________________ 687 षोडशः सर्गः। ध्रुवं विनीतः स्मितपूर्ववाग्युवा किमप्यपृच्छन्नविलोकयन्मुखम् / स्थितां पुरः स्फाटिककुट्टिमे वधूं तदध्रियुग्मावनिमध्यबद्धहक // 6 // ध्रवमिति / युवा कोऽपि तरुणः, पुरः अग्रे, स्फटिके स्फटिकमये, कुट्टिमे निबद्धभूमौ, स्थितां तिष्ठन्ती, वर्धू कामपि सीमन्तिनी, तस्याः बध्वा एवेत्यर्थः, अघ्रियुः ग्मस्य पादद्वयस्य, अवनिः आधारभूतभूभागः, तस्याः मध्ये अन्तरालभूभागे, तस्याः पादद्वयाधारभूतभूम्योरन्तराले इत्यर्थः, बद्धक दत्तदृष्टिः सन् ,तत्सङ्क्रान्ततद्वरागप्रतिविम्बाकृष्टदृष्टिः सन्नित्यर्थः, मुखं न विलोकयन् अधोदर्शनार्थ मुखं न पश्यन् , नजर्थस्य नशब्दस्य सुपसुपेति समासः। विनीतः ध्रुवं साधुरिव, स्मितपूर्वा वाक् यस्य सः तादृशः सन् ईषद्धास्यपूर्वकमित्यर्थः / किमपि यत् किञ्चित् , अपृच्छत् जिज्ञासितवान् / अत्र यूनः स्त्रीसम्भाषणे पादावलोकनेन सुखानवलोकनधर्मयोगात् विनीतत्वोत्प्रेक्षा // 67 // विनयी जैसी ( वास्तविकमें अविनयी अर्थात् हँसी करनेमें चतुर ), मुस्कुराकर बोलनेवाला कोई युवक स्त्रीके मुखको नहीं देखता हुआ स्फटिक मणिकी बनी हुई भूमिपर सामने बैठी हुई स्त्रीसे उसके दोनों चरणों के बीचकी भूमि ( पर प्रतिबिम्बित उस स्त्रीके मदन. मन्दिर-भाग) को देखता हुआ कुछ पूछा // 67 // अमी लसद्बाष्पमखण्डिताखिलं वियुक्तमन्योऽन्यममुक्तमार्दवम् / रसोत्तरं गौरमपीवरं रसादभुञ्जतामोदनमोदनं जनाः // 68 // अमी इति / अमी जनाः जन्यजनाः, लसन् प्रकाशमानः, उद्गच्छन्नित्यर्थः, बाष्प धूमायमानोष्मा यस्य तादृशम् ईषदुष्णमित्यर्थः, अखण्डितम् अभग्नम् , अखिलं स्वरूपम् , आकृतिरिति यावत् , यस्य तादृशम् , अन्योऽन्यं परस्परं, वियुक्तम् असंश्लिष्टं, तथाऽपि अमुक्तमादेवम् अकठिनं, सुकोमलमित्यर्थः, रसोत्तरं स्वादुभूयिष्ठं गौरं शुभ्रम् , अपीवरम् अस्थूलं, सूचममित्यर्थः, आमोदनम् आह्लादजनकं, सुगन्धम् इत्यर्थः, ओदनम् अन्नं, रसात् रागात् , अभुञ्जत अखादन् / सार्थकविशेषणत्वात् परिकरः // 6 // इन बराती लोगोंने बाष्प निकलते हुए अर्थात् थोड़ा-थोड़ा गर्म, बिना टूटे हुए दानोंवाले, परस्परमें नहीं सटे सुए, कोमल, स्वादिष्ट, स्वच्छवर्ण, ( कृष्णभोग, श्यामजीरा आदि उत्तम जातीय चावल होनेसे ) महीन ( अत एव ) हर्षप्रद ( अथवा-सुगन्धयुक्त ) भातको भोजन किया // 68 // वयोवशस्तोकविकस्वरस्तनी तिरस्तिरश्चुम्बति सुन्दरे दृशा | स्वयं किल स्रस्तमुरःस्थमम्बरं गुरुस्तनी होणतराऽपराऽऽदधे // 6 // वय इति / सुन्दरे रूपसम्पन्ने, वरपक्षीये कस्मिंश्चित् पुंसि इति शेषः। वयोव१. 'पराददे' इति पाठान्तरम् / 62 नै० उ०