________________ 672 नैषधमहाकाव्यम् / जनेषु रोमाञ्चमितेषु मिश्रतां ययुस्तयोः कण्ट ककुड्मलश्रियः / / 43 / / बहूनीति / तयोः बधूवरयोः, कण्टककुडमलश्रियः पुलकाङ्कुरसम्पदः कर्व्यः, बहूनि प्रचुराणि, वसूनि धनानि, दक्षिणां दक्षिणारूपेण, प्रयच्छतः ददतः, भीमस्य सत्त्वं सत्त्वगुणं स्वभावं वा, दानशौण्डीरत्वमित्यर्थः / अवेक्ष्य दृष्ट्वा, तत्क्षगं तत्काले, अत्य. न्तसंयोगे द्वितीया / रोमाञ्चं पुलकाञ्चितत्वम्, इतेषु गतेपु, जनेषु दर्शकलोकसमूहेषु, मिश्रतां मेलनं ययुः / दक्षिणादर्शनजन्यविस्मयात् सर्वेषां रोमाञ्चे सति बघूबरयोः सात्त्विकभावोद्भतानि रोमाञ्चान्यपि तादृशविस्मयोद्भूतत्वेनेव तिरोहितानि इत्यर्थः / पूर्ववदलङ्कारः // 43 // - बहुत धनोंको दक्षिणा देते हुए भीमकी दानशूरताको देखकर उस समय रोमाञ्चित हुए ( दर्शक ) लोगोंमें उन दोनों ( नल तथा दमयन्ती ) का रोमाञ्च भी मिल गया अर्थात् एकताको प्राप्त हो गया / [ परस्पर स्पर्शसे नल तथा दमन्तीको जो सात्त्विक भावजन्य रोमाञ्च हुआ, वह भी बहुत दान देते हुए भीमकी दानशूरताको देखनेसे रोमाञ्चित अन्य दर्शकों के बीचमें ही सम्मिलित हो गया अर्थात् जिस प्रकार हमलोगोंको भीमके अत्यधिक धन दान करनेसे आश्चर्यके कारण रोमाञ्च हो रहा है, उसी प्रकार इन वधू-वरोंको भी उसी कारण से रोमाञ्च हो रहा है। लोगों के ऐसा समझनेसे सात्विक भावोत्पन्न नल दममन्तीके रोमाञ्च अन्य दर्शकोंके रोमाञ्चकी समान कोटिमें ही माने गये। परस्पर स्पर्शसे वधू-वरको 'रोमाञ्च' नामक सात्त्विक भाव उत्पन्न हुआ और राजा भीमके अत्यधिक दानको देखकर दर्शक लोगोंको आश्चर्यसे रोमाश्च हो गया ] // 43 // बभूव न स्तम्भविजित्वरी तयोः श्रुतिक्रियारम्भपरम्परात्वरा / न कम्पसम्पत्तिमलुम्पदग्रतः स्थितोऽपि वह्निः समिधाः समेधितः।।४४॥ बभूवेति / तयोः बधूवरयोः, श्रतिक्रियाणां वेदोक्तकर्मणाम्, आरम्भपरम्परायां त्वरा उत्तरोत्तरप्रयोगरूपशीघ्रता, स्तम्भस्य साविकभावोदयजन्यनिष्क्रियाङ्गत्वलक्षणस्य, विजित्वरी विजेत्री, 'इण नशजिसर्तिभ्यः वरप' इति करप् प्रत्यये 'टिड्ढा. णज' इत्यादिना डीप / न बभूव न अपह्नोतुं शशाक इत्यर्थः / श्रुत्युक्तकर्मजातानां शीघ्रसम्पादनेच्छायां सत्यामपि सात्विकस्तम्भवशात् तौ वधूवरौ किमपि कर्म शीघ्र सम्पादयितुं न समर्थौ इति भावः। तथा समिधा इन्धनेन, समेधितः प्रदीपितः, वह्निः अग्निः, अग्रतः स्थितोऽपि कम्पसम्पत्तिं वेपथूद्रेक, न अलुम्पत् निरोद्धं न अश. कदित्वर्थः / समिद्धोऽग्निः शीतजकम्पमेव शमयितुं समर्थः न तु सात्विकं कम्पं गाढा. नुरागविकाराणां दुर्वारवेगत्वादिति तयोः स्तम्भकम्पौ सर्वे ज्ञातवन्त इति भावः / अत्र कर्मत्वरा-समिद्धवह्निरूपकारणसद्भावेऽपि स्तम्भकम्पनिवृत्तिरूपकार्यानुत्पत्तेर्वि शेषोक्तिरलङ्कारः, 'सत्यां तत्सामग्रयां तदनुत्पत्तिर्विशेषोक्तिः' इति लक्षणात् // 44 // 1. 'अवर्ततास्तम्भ-' इति पाठान्तरम् /