________________ 666 नैषधमहाकाव्यम् / वाहेषु वाजिषु विषये 'वाजिवाहार्वगन्धर्व-' इत्यमरः। सङ्घयानुभावे इयत्तापरि. च्छेदे, प्रयत्नवान् उद्योगवानपि, कोऽपि जनः, क्षमः शक्तः, न अभवत् , तथा शात. कुम्भेषु स्वर्णेषु, 'स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् / तपनीयं शातकुम्भम्' इत्यमरः / न, मत्तकुम्भिषु मदसाविगजेषु, न, रत्नराशिषु रत्नसमूहेषु च, न, सर्वत्र सङ्ख्यानुभवे क्षमः अभवत् इत्यनुषङ्गः। विवाहकालप्रदत्ताश्वादिषु' सङ्ख्यासम्बन्धेऽप्यसम्बन्धोक्तेरतिशयोक्तिभेदः // 34 // ____ उन ( राजा भीम ) के द्वारा विवाहमें दक्षिणा ( दहेज ) दिये गये घोड़ों ( या-रथादि सवारियों ), ( आभूषणादि बनाये गये तथा बिना आभूषण बनाये ही दिये गये ) सुवर्णों, मतवाले हाथियों और रत्नों की ढेरोंकी गणना करनेमें प्रयत्नशील भी कोई व्यक्ति समर्थ नहीं हुआ // 34 // करग्रहे वाम्यमत्त यस्तयोः प्रसाद्य भैम्याऽनु च दक्षिणीकृतः / कृतः पुरस्कृत्य ततो नलेन सः प्रदक्षिणस्तत्क्षणमाशुशुणिः // 35 // करेति / यः आशु शोषितुम् इच्छतीति आशुशुक्षणिः अग्निः 'अग्निर्वैश्वानरो वह्निः शिखावानाशुशुक्षणिः' इत्यमरः / 'आङि शुषेः सनश्छन्दसि' इत्योणादिकसूत्रेणापर्वाच्छुषेर्धातोः सन्नन्तादनिप्रत्ययः। अयञ्च शिष्टप्रयुक्तोऽपि भाषायामपीष्यते तयोभैमीनलयोः, करग्रहे पाणिग्रहे विषये, वाम्यं वामभावं, वक्रतामिति वामभागवर्तित्वमिति चार्थः / वामं सव्ये प्रतीपेच' इति विश्वः / अधत्त भैमीकामुकतया पूर्व प्रतिकूल आसीदित्यर्थः। अनु पश्चात् , वाग्यानन्तरमित्यर्थः। भैम्या प्रसाद्य स्तुत्यादिना प्रसन्नीकृत्य, दक्षिणीकृतश्च अदक्षिणः दक्षिणः कृतः इति दक्षिणीकृतः अनुकूलीकृतः इत्यर्थः / दक्षिणभागवर्ती कृतः इत्यर्थश्च / 'दक्षिणो दक्षिणोद्भूतपरच्छन्दानुवर्तिषु / अवामे-' इति विश्वः / ततस्तदनन्तरं, नलेन सः आशुशुक्षणिः, तत्क्षणं सः एव क्षणः यस्मिन् कर्मणि तत् इति क्रियाविशेषणम्, सः चासौ क्षणश्चेति कर्मधारये वाऽत्यन्तसंयोगे द्वितीया। विवाहसमये, पुरस्कृत्य उल्लेखनादिसंस्कारपूर्वकम् अग्रतः कृत्वा च, प्रदक्षिणः अत्यन्तानुकूलः दक्षिणभागवर्ती च, दक्षिणभागे बलयाकारेण वेष्टित इति वा, कृतः। पूर्व प्रतिकूलोऽप्यग्निः प्रार्थनया अनुकूलितः इत्येकोऽर्थः / अग्निप्रदक्षिणीकृत्येत्यादिशास्त्रार्थोऽनुतिष्ठतः इत्यपरार्थः // 35 // जो ( अग्नि ) उन दोनों (नल तथा दमयन्ती ) के विवाहके विषयमें प्रतिकूल ( दमयन्तीका कामुक होनेसे नलरूप धारणकर स्वयंवर में उपस्थित होनेसे विरुद्ध / पक्षावामभागस्थ ) था, बाद दमयन्तीने ( नलवरणकाल ) में ( स्तुति आदिके द्वारा) प्रसन्नकर अनुकूल ( पक्षा०-दक्षिण भागस्थ ) किया; उसी अग्निको बाद नलने विवाहके समयमें (उल्लेखन आदि संस्कारके साथ ) आगे करके प्रदक्षिण ( अतिशय अनुकूल, पक्षा०-दक्षिण 1. 'विवाहादिषु......' इति म०म० शिवदत्तशर्माणः /