________________ 658 नैषधमहाकाव्यम् / तथा नेत्रों में कच्चल करना छोड़ देती हैं, इस वास्ते उनको दक्षिणारूपमें देनेकी कल्पना की गयी है / उस कटारके श्यामवर्ण दोनों भाग शोभते थे // 22 // पुरैव तस्मिन् समदेशि तत्सुताऽभिकेन यः सौहृदनाटिनाऽग्निना / नलाय विश्राणयति स्म तं रथं नृपः सुलङ्घयाद्रिसमुद्रकापथम् / / 23 / / पुरेति / तत्सुताऽभिकेन भैमीकामुकेन 'कामुके कमिताऽनुकः / कम्रः कामयि. ताऽभीकः कमनः कामनोऽभिकः // ' इत्यमरः / अत एव सुहृदो भावः सौहृदं सौहार्दम् युवादित्वादण 'हृद्भगसिन्ध्वन्ते-' इत्यादिनोभयपदवृद्धिः / अत एव 'सौहृददीहूंदशब्दावणि हृद्भावात्' इति वामनः / तत् नाटयति प्रकाशयतीत्यर्थः / यः तेन सौहृदनाटिना, अग्निना अनलेन, यः रथः, पुरा एव स्वयंवरात् प्रागेव, दूतीप्रेरणसमये एव इत्यर्थः। तस्मिन् भीमे, समदेशि सन्दिष्टः, दत्तः इत्यर्थः / सुलवयाः सुखेन अतिक्रम्याः, अद्यः पर्वताः, समुद्राः सागराः, कापथाः उन्नतानतकुत्सितपथाश्च येन तादृशं, 'का पथ्यक्षयोः' इति कोः कादेशः / तमग्निदत्तं, रथं नृपः भीमः, नलाय विश्राणयति स्म विततार, ददौ इत्यर्थः / 'विश्राणनं वितरणम्' इत्यमरः // 23 // ___ उस भीमकी पुत्री ( दमयन्ती ) के कामुक ( अत एव उसके साथ ) मित्रताको प्रकाशित करनेवाले अग्निने पहले ( दूती भेजनेके समय में ) ही जिस रथको उन (भीम) के लिए दिया था; पर्वत, समुद्र तथा ऊँचे नीचे मार्गको सरलतासे पार करनेवाले अर्थात् सर्वत्र जानेवाले उस रथको राजा भीमने नल के लिए दिया / [ स्वयंवरमें आनेके पहले ही अग्निने राजा भीमसे अपनी मित्रताको प्रकाशित करने के लिए उपहारमें रथ भेना था कि 'मैं दमयन्तीका कामुक होने के कारण नहीं, अपितु मित्र होनेके कारण इस रथको आपके लिए. उपहार देता हूं,' सर्वत्र गमन करनेवाले उस रथको भीमने नलके लिए दिया ] // 23 / / प्रसूतवत्ताऽनलकूबरान्वयप्रकाशिताऽस्यापि महारथस्य यत् / कुबेरदृष्टान्तबलेन पुष्पकप्रकृष्टतैतस्य ततोऽनुमीयते // 24 // प्रसूतवत्तेति / यत् यस्मात् , अस्यापि महारथस्य महतः रथस्य, अन्यत्र‘एको दशसहस्त्राणि योधयेद् यस्तु धन्विनाम् / अस्त्रशस्त्रप्रवीणश्च विज्ञेयः स महारथः // ' इत्युक्तलक्षणरथिकविशेषस्य, प्रसूतवत्ता प्रकृष्टसारथिमत्ता, 'सूतः क्षत्ता च सारथिः' इत्यमरः / मत्वन्तत्वात् तलप्रत्ययः / अन्यत्र-प्रसूतवत्ता प्रजनयितृता, प्रकृष्टपुत्रवत्ता इत्यर्थः, कुबेरवदिति भावः / प्रपूर्वात् सूतेः क्तवत्वन्तत्वात् तलप्रत्ययः / अनलेन रथप्रदात्रा अग्निना, कूबरेण युगन्धरेण च, रथस्य युगकाष्ठबन्धनस्थानेनेत्यर्थः / 'कूबरस्तु युगन्धरः' इत्यमरः / अन्यत्र-नलकूबरेण तदाख्येन कुबेरपुत्रेण अन्वयात् योगात् , प्रकाशिता प्रकटिता, ततः कारणात् , एतस्य महारथस्य, कुबेरः एव दृष्टान्तः निदर्शनं, तबलेन तत्प्रभावेण, पुष्पकप्रकृष्टता पुष्पकात् प्रकृष्टता 1. '-वत्ता नल' इति पाठः 'प्रकाश' व्याख्यासम्मतः /