________________ 632 नैषधमहाकाव्यम् कर्णी अपि, वतंसनीलाम्बुरुहेण कर्णभूषणीकृतनीलोत्पलेन, दृशा चतुषा, इति व्यस्त. रूपकं, विलोकमाने नलं पश्यन्त्यौ, अविमनसौ विमनसौ बभूवतुः मनःसम्बन्धरहिते इव किम् ? इत्युत्प्रेक्षा / 'अरुमनश्चक्षुश्वेतोरहोरजसा लोपश्च' इति चिप्रत्ययः सलो. पश्च, 'अस्य च्चौ' इतीकारः / तेन विमनीभावेन, ते श्रुती, न शुश्रवतुः विभूषणप्रेसन विलोकनासक्तचित्ताः सत्यः यथा विमनीबभवुः तथा तासां कर्णावपि कर्णावतंसनी. लोत्पलरूपशा नलं पश्यन्तौ सन्तौ विमनीबभवतुः किम् ? तत एव तासां श्रुती भूषणभ्रंशशब्दं सखीकत्त कतच्छंसनं वा न शुश्रवतुः ? इति तात्पर्यम् / अत्रोत्प्रेक्षालंकारः॥ 81 // ___ नलको देखने में संलग्न चित्तवाली मृगनयनियोंके दोनों कान कर्णभूषण बने हुए नील कमलरूपी नेत्रसे ( नलको ) देखते हुए मानो विमनस्क ( मानसिक सम्बन्धसे हीन अर्थात् नलदर्शनासक्त होनेसे सुनने में जड़ ) हो गये थे; इस कारणसे उन्होंने ( दोनों कानों ) ने मी ( पूर्व श्लोकोक्त विभूषणों के गिरना तथा उस सखीका कहना ) नहीं सुना। [ नलदर्शनैकाग्र सखियों के नेत्र जिस प्रकार विमनस्क अन्य पदार्थोंको प्रत्यक्ष करने ( देखने में असमर्थ ) हो गये, उसी प्रकार कर्णावतंसभूत कमलरूप नेत्रोंसे नल-दर्शनैकाग्र दोनों कान भी दूसरे शब्दोंको प्रत्यक्ष करने ( सुनने ) में विमनस्क ( जड़ ) हो गये ] // 81 // काश्चिन्निर्माय चक्षुःप्रसूतिचुलुकितं तास्वशन्त कान्ता मौग्ध्यादाचूडमोर्निचुलितमिव तं भूषणानां मणीनाम् / साहस्रीभिर्निमेषाकृतमतिभिरयं दृग्भिरालिङ्गितः किं ज्योतिष्टोमादियज्ञश्रुतफलजगतोसार्वभौमभ्रमेण ? / / 82 / / काश्चिदिति / तासु पौरकान्तासु मध्ये, काश्चित् का अपि, कान्ताः सुन्दर्यः, भूषणानां सम्बन्धिनां, मणीनाम् ओघैः समूहैः, आचूडम् आशिखण्डकं, शिखापर्यन्तमित्यर्थः, अभिविधावव्ययीभावः / निचुलितं छादितमिव स्थितम्, सर्वावयवेष्वेव मणिघटितभूषणसत्त्वात् मणिभिराच्छादितमिव स्थितमित्यर्थः तं नलं, चतुर्ष्यामिव प्रसृतिभ्यां निकुब्जपाणिभ्याम् 'पाणिनिकुजः प्रसतिः' इत्यमरः, चुलुकितं चुलुकेन पीतं, निर्माय विधाय, गण्डूषीकृत्येत्यर्थः, साग्रहं दृष्ट्वेति भावः, मौग्ध्यात्, मोहात् , अशङ्कत / शङ्काप्रकारमेवाह-अयं पुमान् , ज्योतिष्टोमादियज्ञैः श्रुतम् अवगतम् , ज्योतिष्टोमादियज्ञानुष्ठानजन्यप्राप्तमित्यर्थः, फलं फलभूता, जगती स्वर्गलोकः, तस्याः सार्वभौमः सर्वभूमेः ईश्वरः इन्द्रः 'सर्वभूमिपृथिवीभ्यामणी' इति अण्प्रत्ययः / इति भ्रमेण अयं नल इन्द्रः, इति भ्रान्त्या, निमेषाकृतमतिभिः निमेषेऽकृतबुद्धिभिः, अनिमेषाभिरित्यर्थः साहस्रीभिः सहस्रसङ्ख्यकाभिः, 'अण च' इति मत्वर्थीयोऽग्प्रत्ययः, दृग्भिः नेत्रः, आलिङ्गितः स्पृष्टः, आश्रित इत्यर्थः, किम् ? इति आशङ्कत