________________ पश्चदशः सर्गः। 121 लसदिति / नखाः एव आदर्शाः, मुखानि एव अम्बुजानि, स्मितानि एव प्रसूनानि, वाण्यः एव मधूनि माक्षिकाणि, पाणयः एव पल्लवाः, तेषां द्वन्द्वः, ते लसन्तः यस्मिन् तत्तादृशं, तत् यौवतं युवतिसमूहः एव / 'गार्मिणं यौवतं गणे' इत्यमरः। 'भिदवादिभ्योऽण्' इति अण् / युवतिशब्दस्य गणे ग्रहण सामर्थ्यादेव 'भस्याढे तद्धिते' इति पुंवद्भावः / यियासतः अभिजिगमिषतः / यातेः सन्नन्तालटः शत्रादेशः। तस्य नृपस्य नलस्य, प्रशस्तवस्तूनि तत्कालोचितमङ्गलद्रव्याणि, जज्ञिरे जातानि जनेलिटि 'गमहन-' इत्यादिना उपधालोपः। अत्र तादृशपाणिपल्लवमुद्दिश्य प्रशस्तवस्तूनां विधेयतयाऽऽरोपणात् विधेयप्राधान्यादेव जज्ञिरे इत्यत्र बहुवचनम् / अत्रारोप्यमाणप्रशस्तवस्तूनां तादृशपाणिपल्लवतादात्म्यस्य प्रकृते गमनारम्भे उपयोगात् परिणामालङ्कारः, स च रूपकानुप्राणितः॥ 76 // शोभमान नखरूप दर्पण, मुखरूप कमल, स्मितरूप पुष्प, वचनरूप मधु ( शहद ) और हस्तरूप पल्लववाला वह युवतियोंका समूह ही (विवाह के लिए जाने के इच्छुक) उस राजा (नल ) के ( यात्राकी सफलतासूचक) माङ्गलिक पदार्थ हुआ। [नलके दर्शनाभिलाषिणी स्त्रियों के समूह के सुन्दर नख दर्पणतुल्य स्वच्छ, मुख कमलतुल्य सुगन्धादियुक्त, स्मित कुन्दादिके पुष्पतुल्य निर्मल, वचन मधुतुल्य मधुर तथा हस्त पल्लवतुल्य कोमल थे, अत एव वे ही यात्राभिलाषी नलके लिए माङ्गलिक पदार्थ हो गये। यात्राके समय उक्त दर्पणादि पदार्थोका देखना शुभसूचक माना जाता है ] // 76 // करस्थताम्बूलजिघत्सुरेकिका विलोकनैकाग्रविलोचनोत्पला ! मुखे निचिक्षेप मुखद्विराजतारुषेव लीलाकमलं विलासिनी // 77 / / करस्थेति / विलोकने नलदर्शने, एकाग्रे एकासक्ते, विलोचनोत्पले यस्याः सा तादृशी, एका एव एकिका काचित् , विलासिनी स्त्री, करस्थताम्बूलं जिघत्सुः अत्तमिच्छुः सती / अदो घसादेशात् सनन्तादुप्रत्ययः। मुखस्य द्वितीयः राजा द्विराजः। वृत्तिविषये संख्याशब्दस्यापूरणार्थत्वं त्रिभागेत्यादिवत् / तस्य भावः द्विराजता, कमले मुखसादृश्यस्य कविभिर्वर्णनीयत्वादिति भावः / तत्र रुषा रोषेण इव, लीलाकमलं मुखे निचिक्षेप विदधे / ताम्बूलचर्वणेच्छुः काचित् स्त्री अन्यमनस्कतया लीलापनं वदने अर्पितवती इति भावः / लीलाकमलस्य मुखप्रतिद्वन्द्वित्वेन एव रुषा मुखे चवंणार्थमर्पणम् इति उत्प्रेक्षालङ्कारः। एतेन विभ्रमाख्यश्चेष्टानुभाव उक्तः, 'बिभ्रमस्त्वरयाऽस्थाने भूषास्थानविपर्ययः' इति लक्षणात् // 77 // (नलको) देखनेमें एकाग्र ( तन्मय ) नेत्ररूप कमलवाली एक स्त्रीने हाथमें लिये हुए पान ( के बीड़े) को खाना चाहती हुई (पानके स्थानमें ) नीलकमलको ही मुखमें डाल दिया. वह ऐसा मालूम हुआ कि 'मुखके राजा रहनेपर यह कमल दूसरा राजा क्यों बन रहा है ? इस क्रोधसे उसने नीलकमलको मुखमें डाल लिया हो। [श्रेष्ठ मेरे मुखके साथ यह कमल स्पर्धा करता है, इस क्रोधसे उसे नष्ट करने के लिए मुख में डाल लिया हो ऐसा