________________ 126 नैषधमहाकाव्यम् / मागतिः / काकतालीयनयतः स समाधिरुदीयते // इति लक्षणात् // 70 // नलने सम्पूर्ण अङ्गों में धारण किये गये विशिष्ट ( उत्तमोत्तम ) भूषणोंसे सघन रत्नसमूहमें अपनी उत्कृष्ट शोमाको देखकर सेवकोंके लाये हुए दर्पणको ( स्वरूप दर्शनरूप कार्यके भूषण-रत्नोंसे ही पूरा हो जानेसे ) निष्फल कर दिया // 70 // .. व्यलोकि लोकेन न केवलं चलन्मुदा तदीयाभरणार्पणद्युतिः। अदर्शि विष्फारितरत्नलोचनैः परस्परेणैव विभूषणैरपि / / 71 // ___ व्यालोकीति / तदीयानां नलीयानाम् , आभरणानाम् अर्पणेन नलाङ्गे विन्यासेन, या धतिः शोभा सा, चलन्मुदा चलन्ती प्रवहन्ती, निरन्तरेत्यर्थः / मुत् हर्षो यस्य तादृशेन, लोकेन जनेन, केवलं न व्यलोकि विलोकिता, किन्तु विष्फारितानि विस्तारितानि, रत्नानि एव लोचनानि यैः तादृशैः, विभूषणरपि अचेतनैरपीति भावः। परस्परेणैव अदर्शि, किमुत चेतनलोकेनेति भावः / अर्थापत्तिरलङ्कारः, सा च रत्न. लोचनेति रूपकोत्थेति सङ्करः, तेन विभूषणानि रत्नलोचनैरन्योऽन्यं पश्यन्ति इव दृश्यन्ते इत्युत्प्रेक्षा व्यज्यते // 71 // ___उस (नल ) के भूषणोंको धारण करनेसे उत्पन्न शोभाको निरन्तर हर्षित लोगों ( मनुष्यों ) ने ही नहीं देखा, (किन्तु ) विस्तारित ( बढ़ाये गये या चमकते हुए, पक्षा०अच्छी तरह खोले हुए ) रत्नरूपी नेत्रोंवाले (जड़) आभूषणोंने भी परस्परमें ही देखा / .71 // ततोऽनु वार्ष्णेयनियन्तृकं रथं युधि क्षेतारिक्षितिभृज्जयद्रथः / नृपः पृथासूनुरिवाधिरूढवान् स जन्ययात्रामुदितः किरीटवान् // 72 / / ततोऽन्विति / ततोऽनु तदनन्तरं, प्रसाधनानन्तरमित्यर्थः / युधि युद्धे, क्षता अरिनितिभृतः शत्रुभूपाः येन सः, जयन् रथः यस्य सः जयद्रथः जैत्ररथ इत्यर्थः / अन्यत्र-क्षतौ विध्वस्ती, अरिक्षितभृत् चापो जयद्रथः सिन्धुराजश्चेति तो येन सः तथोक्तः / जन्यानां वरस्निग्धानां, स्वकीयस्नेहभाजनानामित्यर्थः। यात्रया विवाहयात्रया, मुदितः हृष्टः, अन्यत्र-संग्रामयात्रया मुदितः / 'जन्यं हट्टे परोवादे संप्रामे च नपुंसकम् / जन्या मातृवयस्यायां जन्यः स्याज्जनके पुमान् // त्रिपुत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः / वरस्निग्धे-' इति मेदिनी / किरीटवान् किरीटयुक्तः, अन्यत्रकिरीटवान् किरीटी इति नाम्ना प्रसिद्धः, सः नृपः नलः, पृथासूनुः अर्जुनः इव, वार्ष्णेयः वार्ष्णेयनामा, अन्यत्र-वृष्णेः अपत्यं पुमान् वार्ष्णेयः कृष्णश्च 'इतश्चानिज' इति ढक्। नियन्ता सारथिः यत्र तं वाष्र्णेयनियन्तृकं, 'नद्यतश्च' इति कप / रथम अधिरूढवान् अध्यरोहत / श्लिष्टविशेषणेयं पूर्णोपमा // 72 // ___ इस (भूषण पहनने ) के बाद युद्ध में शत्रु राजाओंको पराजित करने ( या-मारने ) * 1. 'परस्परेणेव' इति पाठान्तरम् / 2. 'क्षितारि-' इति पाठान्तरम् /