SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पश्चदशः सर्गः। 623 कामदेवके रथके सुन्दर चार पहियोंके समान वे नलके कुण्डल शोमने लगे ] // 65 // श्रिताऽस्य कण्ठं गुरुविप्रवन्दनाद् विनम्रमौलेश्चिबुकाप्रचुम्बिनी। अवाप मुक्तावलिरास्यचन्द्रमःस्रवत्सुधातुन्दिलबिन्दुवृन्दताम् / / 66 / / श्रितेति / गुरूणां मातापित्रादीनां, विप्राणाञ्च वन्दनात् प्रणामात् , विनम्रमौले. नम्रशिरसः, अस्य नलस्य, चिबुकं मुखाधोभागः, मुखस्य 'अधस्ताविबुकम्' इत्यमरः / तस्य अग्रं चुम्बति स्पृशति इति तच्चुम्बिनी, कण्ठं श्रिता मुक्तावलिः मौक्तिकमाला, आस्यचन्द्रमसः मुखचन्द्रात् , सवन्त्याः सुधायाः तुन्दिलानां स्थूलानां, बिन्दूनां वृन्दतां समूहत्वम् , अवाप तदिव बभौ इति भावः। अत्र गम्योत्प्रेक्षा // 66 // ___ गुरुजनों एवं ब्राह्मणोंकी वन्दनासे नम्र मस्तकवाले इस (नल ) की ठुड्ढीको स्पर्श करती हुई कण्ठमें पहनी गयी मुक्तामाला मुखरूपी चन्द्रमासे बहते हुए अमृतके बड़ी-बड़ी बूंदोंके भावको प्राप्त किया अर्थात् 'बूंदोंके समान शोभित हुई। [ मालाके मोती बड़ेबड़े, स्वच्छतम तथा गोलाकार थे॥ चन्द्रमाके दर्शनके समान प्रणाम-नम्र नलके देखनेसे गुरुजनों एवं ब्राह्मणोंको आह्लाद हुआ] // 66 // दुद्धता श्रीबलवान् बलं द्विषन् बभूव यस्याजिषु वारणेन सः / अपूपुरत् तान् कमलार्थिनो घनान समुद्रभावं स बभार तद्भुजः।।६७॥ यदिति / श्रीः सम्पत्तिः लक्ष्मीश्च 'शोभासम्पत्तिपद्माषु लक्ष्मीः श्रीरिव कथ्यते' इति विश्वः / यदुद्धता यस्मात् भुजात् समुद्गाच्च उदभूता, यद्वा यदिति भिन्न पदम् अव्ययं पञ्चम्यर्थे योज्यम् / बलं सैन्यं, द्विषन् विरुन्धन् , सः नलः, आजिषु युद्धषु, यस्य भुजस्य कत्त केन, वारणेन शत्रुनिवारणेन, बलवान् प्रबलः, बभूव, अन्यत्रसः प्रसिद्धः, बलं द्विषन् बलासुरस्य द्विट् इन्द्रः / 'द्विषोऽमित्रे' इति शतृप्रत्यये तस्य लादेशत्वाभावात् 'तृन्' इति प्रत्याहारात् 'न लोका-' इत्यादिना षष्ठीप्रतिषेधे. 'द्विषः शतुर्वा' इति वैकल्पिकषष्ठीविधानात् पक्षे कर्मणि द्वितीया। यस्य समुद्रस्य सम्बन्धिना, वारणेन ऐरावतगजेन साधनेन, आजिषु बलवान् बभूव, 'बलं सन्यं बलं स्थौल्यं बलं शक्तिर्वलोऽसुरः' इति शाश्वतः।यः भुजः घनान् सान्द्रान् , निरन्तरमागतानित्यर्थः / तान् दारिद्रयेण प्रसिद्धान् , कमलार्थिनः लक्ष्मीकामान् , याचकानित्यर्थः। अन्यत्र-यः समुद्रः, तान् कमलाथिनः, जलार्थिनः; 'कमला श्रीजलं पद्मं कमलं कमलो मृगः' इति शाश्वतः / घनान् अम्बुदान् , मेघानित्यर्थः / 'घनं सान्द्रं घनं वाचं घनो मुस्ता घनोऽम्बुदः' इति शाश्वतः / अपूपुरत् पूरयामास, घनैर्जलैश्चेति शेषः / पूरयतेलुङि 'णौ चङि' इति हस्ते 'दी? लघोः' इत्यभ्यासस्य दीर्घः। सः तद्भुजः 1. 'यतोऽजनि' इति पाठान्तरम् / 2. 'पपार यस्तान , इति पाठान्तरम् / 58 नै० उ०
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy