________________ पञ्चदशः सर्गः। 617 इति भावः, मङ्गलं मङ्गलकरम् , अवैधव्यसूचकमिति भावः, सिन्दूरमिव तस्याः भैम्याः, अङ्घयोः पादयोः, लाक्षां प्रणामात् संसक्तम् अलक्तकं, शिरःसु स्वस्वसीम. न्तेषु, अदधन्त अधारयन् 'दध धारणे' इति धातोः लङि तङ। स्त्रीणां ललाटे सिन्दूरधारणम् अवैधव्यसूचकम् इति भावः // 55 // नलसे अपने वैधव्यको नहीं पाने के लिए ( दमयन्तीके चरणों में ) नम्र, राजा भीमके उत्सव में आयी हुई राजपत्नियोंने (अपने) पतिके जिलाने के लिए सिन्दूर के समान दमयन्तीके चरणों के महावरको मस्तकों में धारण किया। [ राजपत्नियोंने सोचा कि यदि हमलोग दमयन्ती के विवाहमें नहीं सम्मिलित होंगी तो नल हमलोगों के पतियोंको युद्ध में मारकर हमें विधवा कर देंगे, इस भयसे उस विवाहोत्सवमें वे राजपत्नियां आयीं तथा दमयन्तीके, चरणों में प्रणाम करनेसे उनके मस्तकोंमें दमयन्तीके चरणोंका गीला महावर लग गया, वह ऐसा मालूम पड़ता था कि राजपत्नियों ने अपने-अपने पतियों के आयुष्यके लिए मङ्गलकारक लालसिन्दूर' लगा लिया हो / सधवा स्त्रियोंका मङ्गलार्थ मस्तकमें सिन्दूर धारण करना आचार है ] // 55 // .. अमोघभावेन सनाभितां गताः प्रसन्नगीर्वाणवराक्षरस्रजाम् | ततः प्रणम्याधिजगाम सा हिया गुरुगुरुब्रह्मपतिव्रताशिषः / / 56 / / अमोघेति / ततः प्रसाधनानन्तरं, हिया लजया, गुरुः भारवती, अतिलञ्जितेत्यर्थः, सा भैमी, प्रणम्य गुर्वादीन् अभिवाद्य, अमोघभावेन अवैफल्यगुणेन, प्रसन्नानां गीर्वाणानाम् इन्द्रादिदेवतानां, वराक्षरस्त्रजां वरदानरूपवाग्गुम्फानां, सनाभितां सादृश्यं, गताः प्राप्ताः, तद्वदमोघ इत्यर्थः, गुरूणां पित्रादीनां, ब्रह्मणां ब्राह्मणानां, पतिव्रतानां च आशिषः आशीर्वादान् , अधिजगाम लेभे // 56 // इस ( प्रसाधन-कार्य) के बाद लज्जासे अतिशय मारवती ( दबी हुई-सी ) उस ( दमयन्ती ) ने सफलता अर्थात सत्यताके कारण, प्रसन्न देवों (इन्द्र, अग्नि, यम और वरुण) के वरों के अक्षरमालाओं के समानताको प्राप्त ( इन्द्रादि देवों के 'वरदानके समान सफल होनेवाले ), माता-पितादि गुरुजनों, ब्राह्मणों तथा पतिव्रताओं के आशीर्वादोंको प्राप्त किया / तथैव तत्कालमथानुजीविभिः प्रसाधनासञ्जनशिल्पपारगैः। निजस्य पाणिग्रहणक्षणोचिता कृता नलस्यापि विभोर्विभूषणा / / 57 / / तथैवेति / अथ अस्मिन् अवसरे इत्यर्थः, सः एव कालः यस्मिन् कर्मणि तत् तत्कालं भैमीप्रसाधनसमकालमित्यर्थः, तथैव यथा भैग्याः तथैव, प्रसाधनासञ्जनं प्रसाधनकरणं, तत् एव शिल्पं विद्याविशेषः, तस्य पारगैः पारदर्शिभिः 'अन्तात्यन्ता 1. 'हरिद्रां कुङ्कुमञ्चैव सिन्दूरं कज्जलं तथा / कूर्पासकञ्च ताम्बूलं माङ्गल्याभरणं शुभम् // केशसंस्कारकबरीकरकर्णविभूषणम् / भर्तुरायुष्यमिच्छन्ती दूरयेन पतिव्रता // ' इति स्कन्दवचनम् , इति नारायणभट्टः। ....