SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः सर्गः। 865 पथामिति / तथा तेन प्रकारेण, यथा केनापि कृत्रिमत्वेन नावबुध्यते तादृशरूपेणेत्यर्थः, अधिवासनात् कृत्रिमपुष्पनिर्मितमालासु चम्पकादिसुगन्धिपुष्पैः संस्कारसाधनात् , 'संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्' इत्यमरः, मधुव्रतानां मधुलिहाम् अपि, किमुतान्येषामिति भावः, दत्तविभ्रमाः कृताकृत्रिमपुष्पनिर्मितस्र भ्रान्तयः, इति भ्रान्तिमदलङ्कारः, आतपनिर्भयाः आतपेऽपि अम्लानाः इत्यर्थः, पटच्छिदा पटकर्त्तनेन, चेलखण्डेनेत्यर्थः, कृतानि यानि अकालिकानि अकालोद्भवानि पुष्पाणि तेभ्यः जाताः तजाः, स्रजः मालिकाः, तदा आसन्नविवाहमहोत्सवकाले, पथां नगरमार्गाणां, वितानताम् उल्लोचतां, चन्द्रातपत्वमित्यर्थः 'अस्त्री वितानमुल्लोचः' इत्यमरः, अनीयन्त नीताः, नयतेर्द्विकर्मकत्वात् प्रधाने कर्मणि लङ, 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् / रचनापाटवेन सर्वत्र पुष्पवितानभ्रान्तिता बद्ध्वा इत्यर्थः // 14 // __उस प्रकार (विशेष विचार करनेपर भी अकृत्रिम हो मालूम पड़ने योग्य ) सुवासित करनेसे नित्य मधुपान करनेवाले भोरोंको भो भ्रान्त ( 'ये कपड़ेके बने सुवासित किये गये बनावटो फूल नहीं हैं, किन्तु वास्तविक फूल ही हैं, ऐसा सन्देह ) करनेवाली, धूपमें भी निर्भय अर्थात् नहीं मुझानेवाली, कपड़ोंको काटकर बनायी गयी, असामयिक फूलोंकी मालाएं मार्गों में चंदोवा बन गयीं, [ कपड़ोंको काटकर फूल बनाये गये और उनको उन्हींउन्हीं फूलों की सुगन्धिसे ऐसा.सुवासित किया गया कि सुगन्धिके 'सच्चे पारखी भौंरे भी उन्हें वास्तविक फूल समझकर गन्धपान करते थे, उन कृत्रिम फूलोंको सघन मालाओंसे नागोंको ऐसा सजाया गया कि वे मालाएं मार्गोंकी चंदोवा-सी बन गयीं / / 14 / / विभूषणैः कञ्चकिता बभुः प्रजा विचित्रचित्रः स्नपितत्विषो गृहाः / बभूव तस्मिन्मणिकुट्टिमैः पुरे वपुः स्वमुाः परिवर्तितोपमम् / / 15 / / विभूषणैरिति / तस्मिन् पुरे प्रजाः जनाः, 'प्रजाः स्यात् सन्ततौ जने' इत्यमरः, विभूषणैः अलङ्कारैः, कञ्चुकिताःसञ्जातकञ्चुकाः, सर्वाङ्गीणाभरणाः सत्यः इति भावः, तथा गृहाः विचित्रचित्रैः विविधालेख्यैः स्नपितत्विषः विशुद्धकान्तयः, शोभनदर्शनाः सन्त इत्यर्थः, 'ग्लास्त्रावनुवमाञ्च' इति स्नातेरनुपसर्गस्य मित्वविकल्पात् हस्वत्वम्, बभुः विरेजुः / उाः तत्रत्यभूमेः, स्वं वपुः निजस्वरूपं, मणीनां कुट्टिमः मणिबद्ध. प्रदेशः, कुट्टेन बन्धेन निर्वृत्तं कट्टिभं 'भावप्रत्ययान्तादिमप वक्तव्यः'। कुट्टिमोऽस्त्री निबद्धा भूः' इति स्वामी, परिवर्तितोपमम् अन्यादृशोपमानं, बभूव, पूर्व नगरस्य यादृशी उपमा आसीत् इदानीमलङ्कृतत्वात् तादृशी उपमा नासीत् इति भावः। ___उस नगरमें प्रजा ( नागरिक जन ) विशिष्ट भूषणोंसे सुसज्जित सम्पूर्ण शरीरवाली होकर शोभने लगी, (निर्जीव होने पर भी सजीव मालूम पड़नेवाले अनेक रंगोंसे बनाये / 1. 'स्वरुाः ' इति पाठान्तरम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy