________________ पञ्चदशः सर्गः। 863 चिरकृत मेरा मनोरथाङ्कुर आपके चरण-प्रक्षालनके जलसे सिञ्चित होकर पल्लवितके समान अर्थात् सफल हो जावे] // 9 // तथोत्थितं भीमवचःप्रतिध्वनि निपीय दूतस्य स वक्त्रगह्वरात् / व्रजामि वन्दे चरणो गुरोरिति ब्रुवन् प्रदाय प्रजिघाय तं बहु // 10 // तथेति / स नलः, दूतस्य वक्त्रम् आस्यम् एव, गह्वरं गुहा तस्मात् , तथा पूर्वोक्तप्रकारेण, उस्थितम् उदितं भीमवचसः प्रतिध्वनिम् अनुरूपशब्दं, निपीय दूतमुखात् भीमवचनं श्रुत्वेत्यर्थः, व्रजामि अधुनेव गच्छामि, गुरोः श्वशुरस्य चरणौ वन्दे / व्रजामि वन्दे इत्यत्र 'वर्तमानसामीप्ये-' इति भविष्यदर्थे लट , स्वयम् अहम् आगच्छामि गुरुपादवन्दनायेत्यर्थः, इति ब्रुवन् तं दूतं, बहु बहुधनं, पारितोषिकमिति यावत्, प्रदाय दत्वा, प्रजिवाय प्राहिणोत् / 'हि गता' विति धातोः लिटि 'हेरचडि इति हस्य कुत्वम् // 10 // उस ( नल ) ने दूतके मुखरूपी गुफासे उस प्रकार निकली हुई राजा भीमके वचनकी प्रतिध्वनिको अच्छी तरह पानकर अर्थात दूतसे राजा भीमका सन्देश सुनकर 'चलता हूं' गुरु अर्थात् श्वशुरके चरणद्वयको प्रणाम करता हूँ, ऐसा कहते हुए बहुत ( पारितोषिक ) देकर उस दूत को लौटाया // 10 // निपीतदूतालपितस्ततो नलं विदर्भभर्ताऽऽगमयाम्बभूव सः। निशावसाने श्रुतताम्रचूड़वाक् यथा रथाङ्गस्तपनं धृतादरः / / 11 // निपातेति / ततो दूतप्रत्यावर्त्तनान्तरं, निपीतदूतालपितः श्रुतदूतवाक्यः, स विदर्भभर्ता भीमः, निशावसाने श्रुता ताम्रचूडवाक् प्राभातिकं कुक्कुटकूजितं येन सः तादृशः 'कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः' इत्यमरः / रथाङ्गः चक्रवाकः, कोकश्च. क्रश्चक्रवाको रथाङ्गाह्वयनामकः' इत्यमरः। रथाङ्गपर्यायाणां चक्रवाकनामत्वाभिधा. नात पुल्लिङ्गता / तपनं यथा सूर्यमिव, इति श्रौती उपमा 'इव-वत्-वा-यथाशब्दानां प्रयोगे श्रौती' इति लक्षणात्, एतादरः सनाताग्रहः सन्नित्यर्थः, नलम् आगमयाम्बभूव साग्रहः सन् नलागमनं प्रतीक्षितवानित्यर्थः, तादृगुपमासामर्थ्यादिति // 11 // ___ इस (दूतके लोटने ) के बाद दूतकी बातको अच्छी तरह सुने हुए विदर्भराज भीम आदरपूर्वक (नलको ) उस प्रकार प्रतीक्षा करने लगे, जिस प्रकार प्रातःकालमें मुर्गेकी बोली सुनकर चकवा ( सूर्य के उदय ) की प्रतीक्षा करता है // 11 // काचित्तदाऽऽलेपनदानपण्डिता कमप्यहारमगात पुरस्कृता / अलम्भि तुङ्गासनसन्निवेशनादपूपनिमोणविदग्धयाऽऽदरः / / 12 // काचिदिति / तदा तत्काले, आलेपनदानपण्डिता तण्डुलपिष्टिकया गृहकुट्टिमादौ .. 'क्वचित्' इति पाठान्तरम् /