________________ 862 नैषधमहाकाव्यम् / [इससे विवाह-सम्बन्धी बाहरी एवं भीतरी कार्योंको शीघ्र पूरा करने के लिए राजा भोन की त्वरा सूचित होती है ] // 7 // निरीय भूपेन निरीक्षितानना शशंस मौहूर्तिकसंसदंशकम् / गुणैररीणैरुदयास्तनिस्तुषं तदा स दातुं तनयां प्रचक्रमे / / 8 // निरीयेति / भूपेन निरीय अन्तःपुरात् निर्गत्य, ईङ गताविति धातोः समासात् क्वो ल्यबादेशः / निरीक्षितानि आननानि यस्याः सा लग्नकथनाय मुखनिरीक्षणे. नैव कृतसङ्केता इति भावः / मुहूर्त तत्प्रतिपादकं शास्त्रं विदन्तीति मौहुर्तिकाः ज्यौ. तिषिकाः, "तदधीते तद्वेद' इति ठक् , तेषां संसत् ज्योतिषिकपरिषत् ,अरीणैः अक्षीणैः, समरित्यर्थः, रौ गताविति धातोः कर्तरि क्तः, 'स्वादिभ्यः' इति निष्ठानत्वम् , गुणैः शुभग्रहवीक्षणादिभिः उपलक्षितम् , उदयास्ताभ्यां ग्रहविशेषाणामुदयास्तमयनिबन्धनदोषाभ्यां, निस्तुषं तद्रहितम् , अंशमेव अंशकं वैवाहिकलग्न, शशंस कथयामास, तदा तस्मिन् लग्ने, स भूपः, तनयां दातुं प्रचक्रमे उद्यक्तवानित्यर्थः // 8 // (अन्तःपुरसे ) निकलकर राजा मोमके द्वारा मुख्यनिरोक्षगमात्र सङ्केतित ज्योति. षियोंके समुदायने सम्पूर्ण गुणों ( जामित्र गुगों ) से युक्त तथा शुक-वृहस्पति आदि ग्रहों के उदयास्तादि दोषोंसे वर्जित लग्नको बतलाया, तब उस ( राजा भाम ) ने पुत्रो ( दमयन्ती ) को देने अर्थात् कन्यादान करने के लिए (पूर्वकालिक वैदिक तथा स्मात विधियों को ) आरम्भ कर दिया // 8 // अथावदद्रुतमुखः स नैषधं कुलञ्च बाला च ममानुकम्प्यताम् / सपल्लवत्वद्य मनोरथाङ्करश्चिरेण नस्त्वचरणोदकैरिति // 9 // अथेति / अथ लग्नस्थिरीकरणानन्तरं, दूतः एव मुखं यस्य स तादृशः, स भीमः, मम कुलञ्च बाला भैमी च, अनुकम्पप्यताम् अनुगृह्यतां, चिरेग बहुकालोनः, नः अस्माकं, मनोरथाङ्करः प्रागकरितःत्वया सह भैमाविवाहरूपमनोरथः, स्वचरगोदके तव पादोदकैः, अद्य पल्लवेन सह वर्तते इति सपल्लवः सः इव आचरतु सपल्लवतु अप. लवः पल्लववान् इवास्त्वित्यर्थः / 'सर्वप्रातिपदिकेभ्यः किप वा वक्तव्यः' इति सपल्ल. वशब्दादाचारार्थे किप , ततः किवन्तधातोः प्रार्थनायां लोट / इति नैषधं नलम् , अवदत् , दूतमुखेन नलमिदं निवेदितवानित्यर्थः // 9 // इस (वैवाहिक लग्नके निश्चित होने ) के बाद (राजा भीमने ) दूतके द्वारा नलके प्रति कहलवाया कि-'मेरे कुल तथा पुत्रीको स्वीकार कीजिये, बहुत दिनोंके बाद हमलोगोंका मनोरथरूप अङ्कर आज आपके चरणोदकसे पल्लवित-सा होवे / ' [ भोमने दूतसे नलके पास सन्देश भेजा कि 'आप मेरी पुत्रीको ग्रहणकर मेरे वंशपर अनुग्रह करें, इससे 1. 'मुहूर्त वेद इत्यर्थे 'ऋतूक्यादि-' इत्युक्थादित्वाटक्' इति नारायणश्चिन्त्या, उक्थादौ तदपाठात् / 2. 'स पलवस्वय' इति पाठान्तरम् /