________________ 878 नैषधमहाकाव्यम् / वाचक, ( 'ओं हर ओम्' ऐसा ) जो रूप होता है; वह 'हर' मय अर्थात् हकार-रेफात्मक ('ह, र' रूप ), निराकार अर्थात् दोनों अकारोंसे रहित (ह र अर्थात् ह= केवल व्यञ्जन हकाररेफस्वरूप ), ई और इन्दु (चन्द्र अर्थात् गोलाकृति ( अनुस्वार ) से युक्त) अर्थात् 'ह्रीं' ऐसे रूपवाला, कलायुक्त अर्थात् 'ह्रीं' (इस प्रकार 'ओं ह्रीं ओं' स्वरूप ) मेरे मन्त्र ('चिन्तामणि' नामक सारस्वत मन्त्र ) का मनमें नित्य जप करो अर्थात् मानसिक' जप करो, वह 'चिन्तामणि' नामक सारस्वत मन्त्र तुम्हें सिद्ध होवे। यन्त्रपक्षमें-भग अर्थात् योनिके समान दृष्टिगोचर होनेवाला अर्थात् त्रिकोण, दो आकृतियोंकी घटनासे सम्पूर्ण अर्थात् षटकोणस्वरूप और उस (षटकोण ) के बीचमें उक्त मन्त्र (ओं ही ओं) से युक्त मेरे सारस्वत यन्त्रकी नित्य उपासना करो, वह यन्त्र तुम्हें सिद्ध होवे ( शेष अर्थ पूर्ववत् जानना चाहिये ) // 85 // सर्वाङ्गीणरसामृतस्तिमितया वाचा स वाचस्पतिः स स्वर्गीयमृगीदृशामपि वशीकाराय मारायते / यस्मै यः स्पृहयत्यनेन स तदेवाप्नोति किं भूयसा येनायं हृदये कृतः सुकृतिना मन्मन्त्रचिन्तामणिः / / 86 // सम्प्रति श्लोकद्वयेन मन्त्रमाहात्म्यमाह, सर्वाङ्गीणेत्यादि / येन सुकृतिना पुण्याधिकेन, अयं पूर्वोक्तः, मन्मन्त्रः एव चिन्तामणिः चिन्तामात्रेण चिन्तितवस्तुदायकः मणिस्वरूप इत्यर्थः, हृदये कृतः अनुस्मृतः, सः अनुस्मरणकारी, सर्वाङ्गीणेन सर्वाङ्गव्यापिना, 'तत् सर्वादेः-' इत्यादिना ख-प्रत्ययः, रसः शृङ्गारादिरेव, अमृतं तेन स्तिमितया भरितया, वाचा काव्यादिरूपवाग्वैदग्ध्येन, वाचस्पतिः बृहस्पतिः, तत्स. दृशो भवतीत्यर्थः। 'तत्पुरुषे कृति बहुलम्' इति षष्ठया अलुक, कस्कादित्वात् सत्वम् / 'षष्ठ्याः पतिपुत्र-' इत्यादिना विसर्जनीयस्य सत्वमिति स्वामी, तन्न, 1. तदुक्तं हारीतेन 'त्रिविधो जपयज्ञः स्यात् तस्य तत्त्वं निबोधत / / वाचिकश्चाप्युपांशुश्च मानसश्च विधाऽऽकृतिः। त्रयाणामपि यज्ञानां श्रेष्ठः स्यादुत्तरोत्तरः॥ यदुच्चनीचोच्चरितैः शब्दैः स्पष्टपदाक्षरैः / मन्त्रमुच्चारयेद्वाचा जपयज्ञस्तु वाचिकः॥ शनैरुच्चारयेन्मन्त्रं किञ्चिदोष्ठौ प्रचालयेत् / किञ्चिच्छ्रवणयोग्यः स्यात्स उपांशुर्जपः स्मृतः // धिया पदाक्षरश्रेण्या अवर्णमपदाक्षरम् / शब्दार्थचिन्तनाभ्यां तु तदुक्तं मानसं स्मृतम् // " इति / (हारीतस्मृतिः 4 / 40-44)