________________ चतुर्दशः सर्गः / 877 चिन्तय, शश्वत् निरन्तरं, जप मन्त्रात्मकत्वात् जपरूपेण च उपास्स्व, स. मन्त्रमूर्तिः भगवान् अर्द्धनारीश्वरः, ते तव, सिध्यतु प्रसीदतु, फलतु इत्यर्थः / मन्त्रपक्षे तु-अर्द्ध प्रथमभागे, अवा ओकारेण, मा मकारेण, प्रणवेन इत्यर्थः, तथा अवामाऽर्द्ध अर्द्ध उत्तरभागेऽपि, अवा ओकारेण, मा मकारेण चोपलक्षितं, प्रणवद्वयसम्पुटितमित्यर्थः, एवमुभयाकारघटनात् उभयाभ्याम् अकाराभ्यां घटनात् संयोगात् , द्विधाभूतं ह र इति द्विधा विभक्तम् अथवा उभयाभ्यामाकाराभ्यां, प्रणवस्वरूपायां, घटनात् सम्पुटीकरणात् , द्विधाभूतं द्वयाकारं, भगवदभिधेयं भगवान् शिवः, अभिधेयो वाच्यो यस्य तत् शिववाचकं, यत् रूपं भवति ओं हर ओम् इति यत् स्वरूपं निष्पद्यते, तत् हरमयं हकाररेफात्मकं, निराकारम् अश्व अश्व तौ औ, तयोराकारं स्वरूपं, निर्गतौ रहितो, अकारद्वयौ यस्मात् तादृशं, हकाररकारयोरुच्चारणार्थं यत् अकारद्वयं तच्छु- ' न्यम् , अत एव 'ह' इति व्यञ्जनवर्णमात्रात्मकमित्यर्थः, तथा ई च इन्दुश्च ताभ्याम् ईन्दुभ्यां सह वर्त्तते इति तादृशं सेन्दु तुरीयस्वरविन्दुसहितम्, अमलं निर्दोषं, सकलं कलया अर्द्धचन्द्रेण सहितं, मे मदीयं, मन्त्रं प्रणवद्वयसम्पुटितं ओं ह्रीं ओम् इत्या. कारकं सारस्वतचिन्तामणिमन्त्रमित्यर्थः, तदुक्तं पारमेश्वरे,-'उद्धारस्तु परोक्षेण परोक्षप्रियताश्रुतेः। शिवान्त्यवह्निसंयुक्तो ब्रह्मद्वितयमन्तरा // तुरीयस्वरशीतांशु-रेखातारासमन्वितः / एष चिन्तामणि म मन्त्रः सर्वार्थसाधकः // जगन्मातुः सरस्वत्या रहस्यं परमं मतम् // ' इति शिवशब्देन हकारः, वह्निशब्देन रकारः, ब्रह्मद्वितयम. न्तरा प्रणवद्वितयमध्ये, तुरीयस्वरेण ईकारः, शीतांशुरेखया अर्द्ध चन्द्रः, ताराशब्देन विन्दुः इत्यर्थः / अन्तरित्यादि पूर्ववत् / यन्त्रपक्षे-भगवत् योनीव, अभिधेयं दृश्यं, यत् रूपं त्रिकोणाख्यम् , उभयाकारघटनात् त्रिकोणद्वयमेलनात्, सकलं सम्पूर्ण, षटकोणमित्यर्थः, भवति, तदन्तः तस्य षट्कोणस्यान्तमध्ये, मन्त्रम् ओं ह्रीं ओम् इत्या. कारकम् / अनन्तरोक्तं, नरपते इत्यादि पूर्ववत् / अत्र देवतामन्त्रयन्त्राणां त्रयाणामपि प्रकृतत्वात् केवलप्रकृतश्लेषोऽलङ्कारः। शिखरिणी वृत्तम् // 85 // आधे अर्थात् दहने भागमें पुरुष तथा आधे अर्थात् बांये भाग में स्त्री, (अतएव स्त्री'पुरुषात्मक ) दो भागवाला, ( परन्तु वास्तवमें ) दोनों आकारोंके मिलनेसे सम्पूर्ण, भगवद्वाच्य ('शिव' नामसे कहा जानेवाला ) जो रूप होता है; हे राजन् (नल ) ! चन्द्रयुक्त, निर्मल (शुभ्रवर्ण), निराकार (दो भाग प्रतीत होनेपर भी वास्तविक अवयवहीन), मन्त्रतुल्य गोपनीय (या-मन्त्ररूप ), ईश्वरा-(शिवा-)त्मक मेरे उस रूपको अन्तःकरणमें चिन्तन (ध्यान ) करो, जपो अर्थात् जपरूपसे उपासना करो; मन्त्रमूर्ति वह ( भगवान् शिव ) तुम्हें सिंद्ध (फलदाता) हों। मन्त्रपक्षमें-आधे (पूर्व) भागमें ओकार तथा मकारसे तथा उत्तर भागमें ओकार तथा मकार से उपलक्षित अर्थात् आदि और अन्तमें "आम्' रूप प्रणवसे युक्त; दो अकारोंके घटना ( संयोग) से द्विधाभूत ( 'ह र' इस प्रकार विभक्त / अथवा-दोनों आकार अर्थात् प्रणवके सम्पुटीकरणसे दो आकारवाला), शिव