________________ नैषधमहाकाव्यम् / प्रसन्नचित्त प्रचेता अर्थात् वरुण ( पक्षा-उन्नत चित्तवाला) इस राजा ( नल से ) मन्दहाससे शोभमान वचन बोले-'इस समय दमयन्तीको देकर उसके दहेजके कौतूहलसे तुमको मैं दो वर देता हूं // 79 // यत्राभिलाषस्तव तत्र देशे नन्वस्तु धन्वन्यपि तर्णमणः / आपो वहन्तीह हि लोकयात्रां यथा न भूतानि तथापराणि / / 5 / / तावेव वरावाह, यत्रेत्यादि / ननु भो नल ! यत्र देशे तव अभिलाषः जलेच्छा, तत्र धन्वनि मरुस्थलेऽपि, 'समानौ मरुधन्वानौ' इत्यमरः / तूर्णम् आशु, अर्णः अम्भः, अस्तु उद्भवतु / अस्य वरस्य श्लाध्यतामाह-इह लोके, यथा आपः लोकस्य जनस्य, यात्रां जीवनं, 'गमने जोवने यात्रा' इति वैजयन्ती। वहन्ति प्रापयन्ति, तथा अपराणि अन्यानि, भूतानि पृथिव्यादीनि, न हि, वहन्ति इति पूर्वानुषङ्गः, यदाह वाग्भटः'पानीयं प्राणिनां प्राणा विश्वमेतञ्च तन्मयम्' इति / अतः श्लाघ्योऽयं वर इति भावः।। ___ जहां पर तुम्हारी इच्छा हो, उस मरुस्थलमें भी शीघ्र ही पानी हो जावे, क्योंकि पानी लोगों के जीवनका जैसा कारण है, वैसा अन्य कोई भूत ( पृथ्वी, वायु, तेज तथा आका. श-इनमें से कोई द्रव्य ) कारण नहीं है, ( इसी वास्ते मरुस्थल-जैसे देशमें भी शीघ्र ही पानी प्राप्त कर सकनेका यह प्रथम वर मैं तुमको देता हूँ)॥ 80 // प्रसारितापः शुचिभानुनाऽस्तु मरुः समुद्रत्वमपि प्रपद्य / भवन्मनस्कारलवोद्गमेन क्रमेलकानां निलयः पुरेव / / 81 // प्रसारितेति / किञ्च, मरुः निर्जलस्थलं, भवतः मनस्कारः चित्ताभोगः, समनः सुखतत्परता इत्यर्थः, सुखलाभेच्छा इति यावत्, 'अतः कृकमि-' इत्यादिना सत्वम् तस्य लवः लेशः, तस्य उद्गमे सति, इति सप्तम्यन्तच्छेदः, इति नक्राणां जलजन्तुविशेषाणां, मेलाः एव मेलकाः सङ्घाः, तेषां निलयः आवासः, तथा शुचिभानुना शुभ्रांशुना चन्द्रेण, प्रसारिताः संवर्द्धिताः, आपः यस्य स तादृशः प्रसारितापश्च सन् 'ऋकपूर-' इत्यादिना समासान्तः / समुद्रत्वं प्रपद्यापि प्राप्यापि, भवन्मनस्कारलवोद्गमेनेति तृतीयान्तच्छेदः, पुनश्च त्वदिच्छामात्रेणैवेत्यर्थः, क्रमेलकानाम् उष्ट्राणां, निलयः सन् , 'उष्ट्रा मरुप्रिया' इति प्रसिद्धिः; तथा शुचिभानुना ग्रीष्मसूर्येण 'शुचिः शुभेऽनुपहते ग्रीष्मे हुतवहेऽपि च' इति विश्वः / प्रसारितापः अपसारितोदकश्च सन् , प्रखरसन्तापः सन् इति वा, पुरेवास्तु पूर्ववत् निर्जल एव भवतु / / 81 // ___ तुम्हारे सुखेच्छाके लेशमात्र होने पर ( थोड़ा भी सुख प्राप्तिकी इच्छा होने पर ) मरु. स्थल मगर-समूहोंका निवास स्थान, चन्द्रमासे बढ़ते हुए जलवाले समुद्रत्वको प्राप्तकर अर्थात् समुद्र बनकर भी तुम्हारी थोड़ी-सी इच्छासे ऊटोंका निवासस्थान सूर्य किरणसे सुखाये गये जलवाला ( अथवा-वडवाग्निकी ज्वालासे विस्तृत सन्तापवाला ) पहलेके समान मरुस्थल हो जावे / [ प्रथम अर्थ करते समय 'भवन्मनस्कारलवोद्गमे, नक्रमेलकानाम्' इस