________________ चतुर्दशः सर्गः अवाप्यं लभ्यं, किञ्चित् न जागर्ति न स्फुरति, न विद्यते इत्यर्थः / सामान्येन विशेष समर्थनरूपोऽर्थान्तरन्यासः // 77 // ___ सम्पूर्ण शस्त्रसंहार तथा विक्षेपादिके अङ्गों ( मन्त्रादि-प्रयोगों ) के साथ शत्रुओं पर सर्वदा विजय पानेवाले तुम्हें प्राप्त होवें / वीर-व्रतके लिए कृतसङ्कल्प ( योद्धाओं ) को इस ( समन्त्रक संहार-विक्षेपके सहित अप्रयास प्राप्त शस्त्रों ) से अधिक प्राप्त करने योग्य कोई पदार्थ नहीं है / 77 // कृच्छ गतस्यापि दशाविपाकं धर्मान्न चेतः स्खलतात्तवेदम् / अमुञ्चतः पुण्यमनन्यभक्तेः स्वहस्तवास्तव्य इव त्रिवर्गः / / 7 / / कृच्छमिति / किञ्च, कृच्छू कष्टं दशाविपाकम् अवस्थापरिणामं, गतस्यापि प्राप्त. स्यापि, दुर्दशापन्नस्यापीत्यर्थः, तव इदं चेतः धर्मात् न स्खलतात् न स्खलतु / तोस्तातङादेशः ततः किम् ? तत्राह-पुण्यं धर्मम्, अमुञ्चतः अत्यजतः, न विद्यते अन्यस्मिन् अधर्मे भक्तिः यस्य तस्य अनन्यभक्तेः अधर्मविमुखस्य, त्रयाणां धर्मकामार्थानां वर्गः त्रिवर्गः 'त्रिवर्गो धर्मकामार्थश्चतुर्वर्गः समोक्षकैः' इत्यमरः, स्वहस्ते वसतीति स्वहस्तवास्तव्यः इव हस्तस्थप्राय इवेत्यर्थः। 'वसेस्तव्यत् कर्तरि णिच' इति वक्तव्यात् तव्यत् / अत्र त्रिवर्गसिद्धिलक्षणकार्येण धर्मात्यागरूपकारणसमर्थनात् कार्यण कारणसमर्थनरूपोऽर्थान्तरन्यासः // 78 // कष्टप्रद दशामें पड़े हुए भी तुम्हारा यह चित्त धर्मसे कभी भी स्खलित नहीं होवे / ( इससे लाभ यह होगा कि ) पुण्य अर्थात् धर्मकृत्यको नहीं छोड़नेवाले अधर्मसे पराङ्मुख तुम्हारा त्रिवर्ग ( अर्थ, धर्म और काम रूप पुरुषार्थत्रय ) तुम्हारे हस्तस्थित-सा रहेगा। [ कष्टावस्थामें मनुष्यका चित्त प्रायः धर्मसे स्खलित हो जाता है, किन्तु तुम्हारा चित्त उस समय में भी धर्मपरायण ही बना रहे, इससे तुम अर्थ, धर्म और.कामकी प्राप्ति अनायास ही करते रहोगे] // 78 // स्मिताञ्चितां वाचमवोचदेनं प्रसन्नचेता नृपतिं प्रचेताः / प्रदाय भैमीमधुना वरौ ते ददामि तद्यौतककौतुकेन / / 76 / / स्मितेति / अथ प्रसन्नचेताः प्रचेता वरुणः, एनं नृपति नलं स्मिताञ्चितां मन्दहासमधुरां, वाचम् अवोचत् / तदेवाह-अधुना ते तुभ्यं, भमीं प्रदाय तद्योतक कौतुकेन तस्मिन् प्रदाने, यत् यौतकं युतकयोः वधूवरयोः देयं, युते विवाहकाले यत् लभ्यते तत् इति वा, विवाहकाले प्राप्यद्रव्यमित्यर्थः 'यौतकादि तु यद् देयं सुदायो हरणञ्च तत्' इत्यमरः / अण्-प्रत्ययः कण-प्रत्ययो वा तत्र यत् कौतुकम् इच्छा उत्सवो वा आनन्दो वा तेन, 'कौतुकं नर्मणीच्छायामुत्सवे कौतुके मुदि' इति मेदिनी, यौतकदा. नेच्छया यौतकदानानन्देन वा, वरौ वक्ष्यमाणो, ददामि यौतकत्वेन दास्यामीत्यर्थः।। 1. 'त्वदीयम्' इति पाठान्तरम् /