________________ 872 नैषधमहाकाव्यम् / दीनां ग्रहणं, तत् सर्व, पीयूषरसम् अमृतस्वादम् , अतिशेते इत्यतिशायि ततो. ऽप्युत्कृष्टम् , अस्तु / ईदृग्वरदाने कारणमाह, तदिति / तत् तस्मात् , त्वत्पक्वान्ना. दीनाममृतादप्यधिकस्वादुत्वादित्यर्थः, तव शीलं स्वभावं, सूपं द्विदलादिव्यञ्जनपाकं, कुर्वन्तीति सूपकाराः सूदाः, 'सूपकारास्तु बल्लवाः। आरालिका आन्धलिकाः सूदा औदनिका गुणाः॥' इत्यमरः / कर्मण्यण , तेषां क्रियासु, पाकक्रियासु, सुष्टपका. रक्रियासु च, कौतूहलेन शालते इति तच्छालि कौतूहलि, पाककर्मणि :सदा उत्सुकमित्यर्थः, विद्मः / 'अस्मदो द्वयोश्च'इति बहुवचनम् ,अतः तवेयं सूपविद्या दत्तेति भावः॥ ___ हे राजन् ( नल ) ? तुम्हारा पकाया हुआ भात तथा मछली आदिका रस ( स्वाद ) अमृत रससे भी अधिक स्वादिष्ट होवे, उससे अर्थात् तुम्हारे पकाये हुए अन्नादिके अमृतरसाधिक स्वादिष्ट होनेसे पाचकों ( भोजन बनानेवाले ) रसोइयादारों, पक्षा०-सुन्दर उपकार ) के कार्यों में हमलोग कौतुकयुक्त तुम्हारे शील ( पाककला ) को जानेंगे तो अर्थात् अमृतरससे भी स्वादिष्ट भोजनसामग्री पकानेमें तुम्हें सर्वदा उत्कण्ठित जानेंगे // 75 // वैवस्वतोऽपि स्वत एव देवस्तुष्टस्तमाचष्ट नरोधिराजम् | वरप्रदानाय तवावदानश्चिरं मदीया रसनोधुरेयम् / / 76 / / वैवस्वत इति / देवः वैवस्वतः यमोऽपि, स्वतः एव अप्रार्थितः एव, तुष्टः सन् , तं नराधिराज नलम , आचष्ट अब्रवीत् / तदेवाह-हे नृप ! तव अवदानैः दौत्यादि। रूपैरभुतकर्मभिः, इयं मदीया रसना चिरं चिरात् प्रभृति, वरप्रदानाय उत् उद्गता, धूः वरदानभारः यस्याः सा उधुरा दृढसङ्कल्पेत्यर्थः। 'ऋकपूर-' इत्यादिना समासान्तः // 76 // ___ यम देव भी स्वयं ही प्रसन्न होकर उस नरपति ( पाठा०-भूपति अर्थात् नल से ) बोले-तुम्हारे ( निष्कपट दौत्य आदि ) कर्मोसे यह मेरी जीभ देरसे वर देने के लिये उत्कण्ठित है अर्थात् मैं भो तुम्हारे किये गये दौत्यादि कार्योंसे सन्तुष्ट होकर स्वयं ( विना याचना किये ही ) तुम्हें वरदान देता हूँ / / 76 // सर्वाणि शस्त्राणि सहाङ्गचक्रराविर्भवन्तु त्वयि शत्रुजैत्रे | अवाप्यमस्मादधिकं न किञ्चिज्जागतिं वीरव्रतदीक्षितानाम् // 77 / / सर्वाणीति / हे नल ! सर्वाणि शस्त्राणि आयुधानि, अङ्गचक्रैः प्रयोगोपसंहारादिमन्त्ररूपस्वाङ्गकलापैः सह शत्रून् जेतरि एव जैत्रे जयशीले, शत्रुजैत्रे शत्रुजयकारिणि, जेतृशब्दात्ताच्छील्ये तृनन्तात् प्रज्ञादित्वात् स्वार्थेऽण-प्रत्ययः, 'न लोका-' इत्यादिना * षष्ठोप्रतिषेधात् कर्मणि द्वितीया, योगविभागात् समस्यते, त्वयि विषये, आविर्भवन्तु / एतावता को लाभः ? तत्राह-वीरव्रतम् आहवेषु अनिवर्तित्वं, तत्र दीक्षितानां कृतसङ्कल्पानां त्वादृशां शूराणाम् , अस्मात् अस्त्रलाभात् , अधिकम् उत्कृष्टम् ' 1. 'धराधिराजम्' इति पाठान्तरम् /