SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ चतुर्दशः सर्गः। 857 रोमाङ्कुरैरिति / रोमाङ्कुरैः पुलकैः, दन्तुरितं विषमितम् , अखिलाङ्ग यस्याः सा, रम्यौ अधरौ दन्तवसने, ओष्ठौ इत्यर्थः, अन्यत्राधोभागश्च यस्याः सा, 'अधरो दन्तवसने हीनेऽनूर्वेऽधरोऽन्यवत्' इति विश्वः / सा भैमी, शरव्यदण्डैः निखातलक्ष्यभूतयष्टिभिः, श्रिता प्राप्तेत्यर्थः, मण्डनश्रीः प्रसाधनशोभा यस्याः सा तादृशी, रोमाकुराणां शरव्यदण्डसादृश्यं बोध्यम् ; स्मरस्येयं स्मारी कन्दर्पसम्बन्धिनी, शरोपास. नस्य शराभ्यासस्य, वेदिकेव सुतराम् अत्यर्थ, विरेजे शुशुभे; सञ्जातपुलकां तां दमयन्तीं कामः स्वशरैः पुनः पुनः विव्याध इति भावः / शराभ्यासिनो व्याधप्रमुखा निखातलक्ष्ययष्टिकां वेदीं कुर्वन्तीति प्रसिद्धिः / / 51 // रोमाकुरोंसे उच्चावच (विषमित ) सम्पूर्ण शरीरवाली तथा सुन्दर ओष्ठोंवाली वह ( दमयन्ती ) लक्ष्य ( निशाने ) के दण्डोंसे अलङ्कार-शोभाको पायी हुई कामदेवकी बाणाभ्यासकी वेदीके समान अत्यन्त शोभने लगी। [ बाणाभ्यास करनेवाले व्यक्ति दण्डा गड़ी हुई वेदी बनाकर उसे निशाना बनाकर बाण मारते हैं। रोमाञ्चित दमयन्तीको कामदेवने अपने बाणोंसे बार-बार निशाना बनाकर पीड़ित किया ] // 51 // चेष्टा व्यनेशन्निखिलास्तदाऽस्याः स्मरेषुपातैरिव ता विधूताः / अभ्यर्थ्य नीताः कलिना मुहूर्त लाभाय तस्या बहु चेष्टितुं वा / / 2 / / चेष्टा इति / तदा तत्काले, अस्याः भैम्याः, ताः, प्रागनुभूताः, निखिलाः चेष्टाः कटाक्षवीक्षणाङ्गविक्षेपादयः,स्मरस्येषुपातैः बागप्रहारः, विधूताः निरस्ता इवेत्युत्प्रेक्षा व्यनेशन् विनष्टाः, नशेलुङि पुषादित्वादङ , 'नशिमन्योरलिटि एत्वं वक्तव्यम्' इत्येस्वम् / 'विनेशु'रिति पाठे-लिट्यनादेशादित्वात् 'अत एकहलमध्येऽनादेशादेलिटि' 1. 'विनेशुनि-' इति पाठान्तरम् / 2. एतदने 'प्रकाश' कृता 'भाष्यकारस्य, वार्तिककारस्य, पदमञ्जरीकारस्यापि मते छन्दस्येवैत्त्वं नशिमन्योर्न भाषायाम् / 'अनेशन्नस्येषवः' इत्युदाहरणात् नशेरप्येत्त्वं छन्दस्येव' इत्यवसीयते। वृत्तिकृता तु नशिमन्योर्भाषाविषयत्वमङ्गीकृत्य अमिपच्योश्छन्दोविषयत्वमङ्गीकृत्यत्त्वं समर्थितम् / ' इत्युक्तम् / अत्र पक्षद्वयस्यायमाशयः-नशिमन्यो षायामेत्त्वानङ्गीकारपक्षे भाष्यप्रदीपोद्योतकृतो नागेशभट्टस्य अत एव 'चेष्टा व्यनेशन्निखिलास्तदास्याः' इति श्रीहर्षस्य प्रमादः' इत्युक्तिर्मानम् / तयोर्भाषायामप्येत्त्वाङ्गीकारपक्षे तु 'नशिमन्योरमिपचोश्छन्दस्येवमलिट्यपि' इत्येवमानुपूर्वी परित्यज्य 'नशिमन्योरलिटय त्वं छन्दस्यमिपचोरपि' इत्येवमानुपूर्व्या वार्तिककृतः पाठः तथा 'नशिमन्योरलिट्य त्वं छन्दसि', 'अमिपचोरपि' इत्येवम्भूतं 'छन्दसी'ति नशिमनिभ्यां सम्बध्यते, अपिना उत्तरत्रामिपचिभ्यामपि' इत्यभिप्रायक विभागमविधाय 'नशिमन्योरलिट्यत्त्वम्', 'छन्दस्यमिपचोरपि'इत्येवम्भूतं नशिमन्योः सामान्येन्यत्त्वमुक्त्वाऽनन्तरमुत्तरस्थाभ्याममिपचिभ्यामेव छन्दसीति सम्बध्यत इत्यभिप्रायको भाष्यकृत्कृतो विभागो मानमित्यवधेवम् /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy