________________ 853 चतुर्दशः सर्गः बना दिया है, अत एव अब आपलोग ब्रह्माके किये हुए कार्य का उल्लङ्घन न करके नलवरणार्थ दमयन्तीको आशा प्रदान करें] // 41 // वर्णाश्रमाचारपथात् प्रजाभिः स्वाभिः सहैवास्खलते नलाय | प्रसेदुषो वेदशवृत्तभङ्गथा दित्सैवं कीर्तेर्भुवमानयद् वः ? // 42 / / यद्वा, किमेषां देवानां दोषग्रहणेन येनेत्थमुपालभ्यन्ते ? किन्तु गुणग्रहणेनैव तान् प्रसादयामीत्याशयेनाह, वर्णेति / वर्णानां ब्राह्मणादीनाम्, आश्रमाणां ब्रह्मचर्यादीनाम्, आचारपथात् सद्वृत्तमार्गात् , स्वाभिः स्वकीयाभिः, प्रजाभिः सहैव अस्खलते अचलते, नलाय प्रसेदुषः प्रसन्नान् , 'भाषायां सदवसभ्रवः' इति सदेः वसुरादेशः / व युष्मान् , ईदृश्या अकपटदूत्यकृत्यप्रकाशितया, वृत्तभङ्गया चरित्रवैचित्रयेण, तद्वयाजेनेत्यर्थः 'स्त्रियाः पुंवत्-' इत्यादिना पुंवद्भावः, कीर्तेः दित्सा नलाय कीर्ति दातुम इच्छेव की, ददातेः 'सनि मीमा-'इत्यादिना इसादेशेऽभ्यासलोपः, 'अः प्रत्ययात्' इत्यकार-प्रत्यये टाप , भुवम् आनयद्वा ? युष्मान् पृथिवीमानी तवती किम् ! 'नीवह्योः-' इत्यादिना नयतेर्द्विकर्मकता / नलस्य कीर्तिम् अलङ्कत म् अयं वः प्रयासो न तु भैमी पीडयितुमिति भावः // 42 // अथवा अपनी प्रजाओं के साथ वर्णों ( ब्राह्मण, क्षत्रिय, वैश्य तथा शूदों) और आश्रमों ( ब्रह्मचर्य, गृहस्थ, वानप्रस्थ तथा संन्यास ) के आचारमार्गसे स्खलित नहीं होनेवाले अर्थात् प्रजाओंके साथ ही वर्णाश्रमाचरित मार्ग पर चलनेवाले नलके लिए, प्रसन्न आपलोगोंको ऐसे व्यवहार ( नलके अकपटदूतभावसे प्रकाशित विचित्र कार्य) के द्वारा कीर्ति देनेकी इच्छा ही...... ) / [ 'इन्द्रादि दिक्पालों के स्वयंवर में अपने वरणके लिए उपस्थित होनेपर भी दमयन्तीने उनको छोड़कर नलको ही वरण किया' ऐसी नलकी कीर्ति उत्पन्न करने के लिए ही आपलोग इस भूलोकमें आये हैं, अप्सराओं के साथ सम्भोग करनेवाले आपलोगोंकी मानवी के साथ सम्भोग करनेकी इच्छा भला कैसे हो सकती है ? अत एव अब नलवरणार्थ दमयन्तीको आपलोग आज्ञा दें // 42 // इति श्रुतेऽस्या वंचने च हास्यात् कृत्वा सलास्याधरमास्यबिम्बम् / भ्रूविभ्रमाकूतकृताभ्यनुज्ञेष्वेतेषु तां साऽथ नलाय निन्ये / / 43 / / इतीति / किञ्चेति चार्थः, अस्याः देव्याः, इति इत्थम्भूते, वचने श्रुते सति हास्यात् प्रसन्नताजनितहासाद्धेतोः, आस्यबिम्बं सलास्याधरं चलदोष्ठमिति यावत्, कृत्वा, एतेषु देवेषु, भ्रविभ्रम एव भ्रचेष्टेव, आकृतम् अभिप्रायः तेन अभिप्रायव्यञ्जकचेष्टयेत्यर्थः, कृता अभ्यनुज्ञा यः तेषु सस्सु, अथ अनुज्ञाप्राप्तयनन्तरं, सा देवी, तां भैमी, नलाय निन्ये नलसमीपं निनायेत्यर्थः / क्रियाग्रहणाच्चतुर्थी // 43 // 1. 'दित्सेव' इति पाठान्तरम् / 2. 'वचसैव इति 'प्रकाश' कारसम्मतः पाठः /