________________ 602 नैषधमहाकाव्यम् / तथा स्वर (नासिका स्वर ) आदि (दक्षिणनेत्रका स्फुरण आदि) के द्वारा आयी हुई उसे हितकारिणी मानकर उसकी पूजा की // 91 // दिगन्तरेभ्यः पृथिवीपतीनामाकर्षकौतूहलसिद्धविद्याम् / ततः क्षितीशः स निजां तनूजां मध्येमहाराजकमाजुहाव / / 92 // दिगिति / ततो देवीपूजानन्तरं, सः क्षितीशः भीमः, दिमन्तरेभ्यः पृथिवीपती. नाम् आकर्षकौतूहले आकर्षकर्मणि, सिद्धविद्यां सिद्धमन्त्रस्वरूपाम्, अमोघवृत्ति मित्यर्थः, सौन्दर्येण सर्वाकर्षणकारिणीमिति भावः, निजां तनूजां मध्येमहाराजकं महतो राजसमूहस्य मध्ये, आजुहाव आहूतवान् , ह्वयतेर्लिटि 'अभ्यस्तस्य च' इति द्विर्भावात् प्राक सम्प्रसारणे रूपसिद्धः, भीमः सभायां दमयन्तीम् आनयामास इति भावः // 92 // * इस ( सरस्वती देवी की पूजा करने ) के बाद उस राजाने भिन्न-भिन्न दिशाओंसे राजाओंके आकृष्ट करनेके कौतूहलमें ( मन्त्रादि द्वारा) सिद्ध विद्यारूपा अर्थात् अपने सौन्दर्यके द्वारा विभिन्न दिशाओंसे राजाओंको आकृष्ट करनेमें मन्त्रसिद्ध विद्याके समान अपनी पुत्री ( दमयन्ती ) को महाराजाओं के बीचमें बुलाया // 92 // दासीषु नासीरचरीषु जातं स्फीतं कमेणालिषु वीक्षितासु / स्वाङ्गेषु रूपोत्थमथाद्भुताब्धिमुद्वेलयन्तीमवलोककानाम् / / 93 // अथ षोडशश्लोक्या दमयन्ती वर्णयति-दासीस्वित्यादि। कीदृशम् ? नासीरे चरन्तीति नासीरचरीषु अग्रेसरीषु, चरेष्टः, टिस्वात् ङीप, दासीषु परिचारिकासु, वीक्षितासु सतीषु, जातम् उत्पन्नं, क्रमेण आलिषु, सखीषु, वीक्षितासु स्फीतं प्रवृद्धं, 'स्फायः स्फी निष्ठायाम्' इति स्फीभावः, अथानन्तरं,रूपोत्थं सौन्दर्यजन्म, अवलोककानां प्रेक्षकाणाम् , अद्भुताब्धि विस्मयसागरं, स्वाङ्गेषु दमयन्त्या अवयवेषु, वीक्षितेषु सत्सु उद्वेलयन्तीम् उद्वेलं कुर्वती, वेलामतिलङ्घयन्तीमित्यर्थः, भैमी 'पपावपाङ्गरथ राजराजिः' इति 108 श्लोकोक्तेन अन्वयः। उद्वेलशब्दात् 'तत्करोति' इति ण्यन्ताच्छतरि डीप। अत्र एकस्मिन्नद्भुताब्धौ क्रमेणानेकेषां जातत्वस्फीतत्वोढेल. त्वानांवृत्तिकथनात् पर्यायालङ्कारभेद: 'एकस्मिन्ननेकमनेकस्मिन्नेकम् इति लक्षणात्।। ( यहांसे 16 श्लोकों तक (10.93-108) दमयन्तीका वर्णन करते हैं, अतः इन श्लोकोंका ...पपावपाडैरथ राजराजिः' (10 / 108)' श्लोकस्थ क्रियापदके साथ अन्वय है) आगे चलनेवाली दासियों में उत्पन्न, क्रमशः ( इसके उपरान्त क्रमसे ) देखी गयी सखियोंमें बढ़े हुये और अनन्तर अपने (दमयन्तीके ) अङ्गोंमें सौन्दर्यजन्य देखनेवालों के आश्चर्यसमुद्रको बढ़ाती हुई ( दमयन्तीको राजसमूहने कटाक्षोंसे देखा )- // 93 // स्निग्धत्वमायाजललेपलोप-सयत्नरत्नांशुमृजांशुकाभाम् / नेपथ्यहीरद्युतिवारिवर्ति-स्वच्छायसच्छायनिजालिजालाम् / / 94 //