________________ 600 नैषधमहाकाव्यम् / कलमके सारोंसे, केश-समूहको स्याहियों के सारोंसे और स्मित-कान्तिको खड़िया (श्यामपट = ब्लैंकवोर्डपर लिखनेका च क ) के सारोंसे बनाया है ? // 87 // या सोमसिद्धान्तमयाननेव शून्यात्मतावादमयोदरेव / विज्ञानसामस्त्यमयान्तरेव साकारतासिद्धिमयाखिलेव / / 88 // येति। या देवी, सोमसिद्धान्तः कापालिकदर्शनम् , अथ च-सोमस्य इन्दोः, सिद्धान्तः अखण्डरूपश्च, तन्मयम् आननं यस्याः सा इव स्थिता; तथा आत्मानो न सन्तीति वादः शून्यात्मतावादः माध्यमिकबौद्धविशेषदर्शनं, तन्मयं तदेव, उदरं यस्याः सा तादृशीव, अथ च-शून्यात्मता निस्वरूपता, तदादो नास्तिवादः, तन्मयमुदरं यस्याः सा अतिकृशोदरीत्यर्थः, 'नासिकोदर-' इत्यादिना विकल्पादनी. कारः, विज्ञानस्य निराकारविज्ञानमात्रस्य, सामस्त्यं साकल्यम् इति योगाचारबौद्धविशेषमतं, तन्मयं तदेव, अन्तरं यस्याः सा इव, अथ च-विज्ञानसामस्त्यमर्थवि. शिष्टज्ञानसम्पत्तिश्च, तन्मयमन्तरं यस्याः सेवा तथा साकारता साकारविज्ञानवादी सौत्रान्तिकः ज्ञानानां नीलपीताधाकारता, तसिद्धिस्तन्मयाः, अथ च-शोभनाकारतासम्पत्तिश्च तन्मयाः अखिलाः सर्वाः यस्याः सेव, स्थितेति शेषः, इति सर्वत्रो. स्प्रेक्षा; एवम्भूता सरस्वती मध्येसभम् अवततार इति 74 श्लोकोक्तक्रियापदेन अन्वयः // 88 // कुलकम् / रूप मुखवाली, शून्यतावाद (माध्यमिक दर्शन, पक्षा०-अभाववाद ) रूप उदरवाली, विज्ञानसामस्त्य (निराकार विज्ञानमात्रवादी बाह्यालापी योगाचार, पक्षा०-विशिष्ट ज्ञान ) रूप चित्तवाली और साकारतासिद्ध ( साकारज्ञानवादी सौत्रान्तिक ज्ञान नील-पीतादिरूपतासे सिद्ध, पक्षा०-सुन्दर आकृति) रूप सम्पूर्ण अवयवोंवाली हुई। [ जिस सरस्वतीका मुख पूर्ण चन्द्र के समान था, कटि अत्यन्त पतली थी, वह स्वयं विशिष्ट ज्ञानयुक्त एवं परमसुन्दरी थी] // 88 // भीमस्तयाऽगद्यत मोदितुं ते वेला किलेयं तदलं विषय | मया निगाद्यं जगतीपतीनां गोत्रं चरित्रञ्च यथावदेषाम् // 89 // भीम इति / अथ तया देव्या सरस्वत्या, भीमो भीमभूपतिः, अगद्यत उक्तः / किमिति ? हे राजन् ! इयं ते तव, मोदितुं हर्ष कर्त्त, वेला किल समयः खलु, 'कालसमयवेलासु तुमुन्' तत्तस्मात् , विषध खेदित्वा, अलं विषादो न कर्त्तव्य इत्यर्थः, 'अलंखल्वोः इत्यादिनाक्त्वाप्रत्ययः। कुतः,? एषां जगतीपतीनां राज्ञा,गोत्रं कुठं नाम च, 'गोत्रं नाम्नि कुलेऽपि च' इति विश्वः, चरित्रञ्च मया निगाचं वक्तव्यम् , अहं वषयामीत्यर्थः / 'ऋहलोण्यत्' 'गदमद' इत्यादिसूत्रे अनुपसर्ग एव यतो विधानात् // 1. विचित्रमेषाम्' इति पाठान्तरम् /