________________ 182 नैषधमहाकाव्यम् / स्मरेण निस्तक्ष्य वृथैव' वाणैर्लावण्यशेषां कृशतामनायि / अनङ्गतामध्ययमाप्यमानः स्पर्धा न साधं विजहाति तेन / / 109 / / अथ कार्य्यावस्थामाह-स्मरेणेति / अयं नलः स्मरेण बाणैर्निस्तक्ष्य निशात्य वृथैव लावण्यं कान्तिविशेषः, 'मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा / प्रतिभाति यदनेषु तल्लावण्यमिहोच्यते // ' इति भूपालः / तदेव शेषो यस्यास्तां तनुतां कार्यमनायि नीतः / नयतेर्द्विकर्मकत्वात्प्रधाने कर्मणि लुङ् 'प्रधानकर्मण्याख्येये लादी. नाहुर्द्विकर्मणामिति वचनात् / वृथात्वं व्यनक्ति-अनङ्गतां कृशाङ्गताम् 'अनुदरे' तिवदीषदर्थे नत्र समासः, आप्यमानो आनीयमानोऽपि अत्र पूर्ववत्प्रधाने शानच तेन स्मरेण सार्द्ध स्पर्धा न विजहाति, तथापि तं जिगीषत्येवेत्यर्थः / अङ्गकार्येऽपि स्पर्धाबीजलावण्यस्याकाादङ्गकर्शनं वृथैवेति भावः / अत एव विशेषोक्तिरलङ्कारः, 'तत्सामग्रयामनुत्पत्तिर्विशेषोक्तिरलङ्कृतिः।" इति लक्षणात् // 109 // ( अब पाँचवीं 'कृशता' अवस्थाका वर्णन करता है-) कामदेवने बाणोंसे छील-छील कर व्यर्थमें ही सौन्दर्यावशेष (जिसकी सुन्दरता ही बच गयी है ऐसी दुर्बलताको प्राप्त कराया है, क्योंकि अनङ्गता ( अतिशय कृश हो जानेसे अतिक्षीण-शरीरता, पक्षा०मदनता ] को पाप्त भी ये नल उस ( कामदेवके साथ स्पर्धा करना नहीं छोड़ेंगे / [ यद्यपि नल कामपीड़ासे अत्यधिक दुर्बल हो जायेंगे, तथापि सुन्दरताके वैसे ही स्थिर रहनेसे कामदेवके समान ही रहेंगे, अत एव कामदेवका उक्त प्रयत्न वृथा है ] // 109 / / त्वत्प्रापकात्त्रस्यति नैनसोऽपि त्वय्येव दास्येऽपि न लज्जते यत् / स्मरेण बाणैरतितक्ष्य तीक्ष्णेलनः स्वभावोऽपि कियान् किमस्य // 110 // अथ द्वाभ्यां लजात्यागमाह-वदित्यादि / स्मरेण तीक्ष्णैर्बाणैरतितच्य शरीरमिति शेषः। अस्य नलस्य स्वभावोऽपि पापभीरुत्वनीचत्वगर्हत्वताच्छील्यमपि क्रियानल्पोऽपि लूनः किमित्युत्प्रेक्षा, यद्यस्मात्त्वत्प्रापकात् त्वत्प्राप्तिसाधनादेनसः पापादपि न त्रस्यति, 'भीत्रार्थानां भयहेतुरिति अपादानत्वात् पञ्चमी त्वय्येव दास्येऽपि त्वदधिगतदास्यविषये न लजते // 110 // ( अव सातवीं 'निर्लज्जा' वस्थाका वर्णन करता है-आठ प्रकारके विवाहोंमें 'राक्षस' नामक विवाहका वर्णन क्षत्रियके लिए आया हैं, अत एव ) ये नल तुमको प्राप्त 1. 'तथैव' इति पाठान्तरम् - 2. मनुनोक्ता अष्टविधविवाहा यथा _ 'ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽऽसुरः। गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः / / ' इति ( मनु० 3 / 21) 3. तदुक्तं मनुना-'चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः / राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः' इति ( मनु० 3 / 24)