________________ अवधीयचरितं महाकाव्यम् अभिलक्ष्य, दिश्यः = दिग्भवै;, अशेषः = अखिलः, लोकः = जनः, प्रयाणे = प्रस्थाने, विहिते = कृते, ककुभाम् = दिशाम्, विभागाः = प्रदेशाः, स्ववर्तितत्तज्जनयन्त्रणातिविश्रान्तिम् = स्वनिष्ठतत्तल्लोकाक्रमणपीडाविरतिम्, आपुः = प्राप्तवत्यः। टिप्पणी-अवनिश्रियम् = अवनेः श्रियम् (10 तत्पु० ) / उद्दिश्य = उत् +दिश् + क्त्वो ल्यप् / दिश्यः = दिक्षु भवा, दिश्यास्तः दिश्यः 'दिगादिभ्यो. यत्' इति भवार्थे यत्प्रत्ययः,। लोकः 'लोकस्तु भुवने जने' इत्यमरः / प्रयाणे - प्र+या+ ल्युट्) / विहिते-वि+धा+क्तः / स्ववत्तितत्तज्जनयन्त्रयातिविधान्तिम् - स्वस्मिन् वर्तन्त इति स्वत्तिनः "सुप्यजातावि"त्यादिना णिनिः ( उप० समासः) ते च ते जनाः तत्तज्जनाः ( कर्मधारयः) ततः स्ववर्तिनश्च ते तत्तज्जनाः स्ववत्तितत्तजनाः (कर्मधार्यः ) तेषां यन्त्रणया या आतिः तस्याः विश्रान्तिम् (क्रमेण ष० तत्पु०, तृतीया तत्पु०, पञ्च० तत्पु० ) / तल्लक्ष्या अत्र प्रतीयमानोत्प्रेक्षालङ्कारः। भावः–अवनिश्रियमेवमीक्षितुं वरितुं वा समुपागते जनः / स्वजनाक्रमणातिनिर्गताः ककुभः प्रापुरभारजां मुदम् // मनुवाब:-इस प्रकार भूलोक की लक्ष्मी स्वरूपा उस दमयन्ती को लक्ष्य करके दिशाओं में रहने वाले सभी लोगों के प्रस्थान कर देने पर दिशाओं के सारे विभागों ने वहाँ के रहने वाले लोगों के दबाव से मुक्त होकर मानों राहत की श्वांस ली॥४॥ तलं यथेयुन तिला विकीर्णाः सैन्यस्तथा राजपथा बभूवुः / भैमी स लब्धामिव तत्र मेने यः प्राप भूभृद्भवितुं पुरस्तात् // 5 // अन्वयः-यथा विकीर्णाः तिलाः तलं न ईयुः सैन्यः राजपथाः तथा बभूवुः, तत्र यः भूभृत् पुरस्तात् भवितुं प्राप स भैमी लब्धाम् इव मेने / ज्याल्या-यथा = येन प्रकारेण, विकीर्णाः = उपरिक्षिप्ताः, तिलाः=धान्यविशेषाः तलम् = भूतलम्, न = नहि, ईयुः प्राप्नुयुः, सैन्यः =सैनिकः; राजपथाः = राजमार्गाः, तथा तादृशाः, बभूवुः = भवन्ति स्म, तत्र = तस्मिन् समये, यः भूभृत् = यः राजा, पुरस्तात् =अग्रे, भवितुम् =भावम्, प्राप-प्राप्तवान्, सः = भूभृद, भैमीम् - भीमपुत्रीम्, लब्धाम् = प्राप्ताम् इव == यथा, मेने= मन्यतेस्म /