________________ दशमः सर्गः टिप्पणी-यथा येन प्रकारेणेति यथा 'प्रकारे वचने पाल्' यत् +थाल / विकीर्णाः = वि++ क्तः, 'रीङ् ऋतः' इति रीडादेशो णत्वत्, 'हलि चेति दीर्घः / सैन्यः = सेनायां समवेता सैन्या = 'सेनायां वा' इति ध्यप्रत्ययः / राजपथाः = राज्ञां पन्थानः राजपथाः (10 तत्पु०) 'राजाहःसखिभ्यष्टच् इति समासान्तः। तत्र 'सप्तम्यास्त्रल्' इति सप्तम्यर्थे त्रल् प्रत्ययः / लब्धाम = लम् + क्तः, यदि पूर्वगतो भवेयम् तहि स्वयं भैमी लप्स्य इति अहं पूर्विकया सर्वे समाजग्मुरित्यर्थः / / उच्चकैः प्रेरिता नो तिला भव्युपेयुः राजमार्गास्तथासन् तताः सर्वतो हि / यो बभूवाग्रतो गन्तुमीशस्तु तत्र प्राप्तवन्तं स भैमी निजं मन्यते स्म // अनुवा:-जिस प्रकार ऊपर फेंके गये तिल भूमिपर न गिर सके इस प्रकार राजमार्ग सेनाओं से भर गया उस समय जो राजा उस महती भीड़ से आगे निकल गया उसने समझा कि दमयन्ती हमको अवश्य मिल जायगी। पहले हम पहले हम इस प्रकार अहमहमिका से लोग चल रहे थे। नृपः पुरःस्थेः प्रतिरुद्धवा पश्चात्तनैः कश्चन नुद्यमानः / यन्त्रस्थसिद्धार्थपदाभिषेकं लब्ध्वाप्यसिद्धार्थममन्यते स्वम् // 6 // अन्वयः-पुरःस्थः प्रतिरुद्धवा पश्चात्तनैः नुद्यमानः कश्चन नृपः यन्त्रस्थसिद्धार्थपदाभिषेकं लब्ध्वा अपि स्वं असिद्धार्थम् मन्यते स्म / प्यास्या-पुरस्थः =अग्रेतनः, प्रतिरुद्धवर्मा-अवरुद्धमार्गः, पश्चात्तनैः पृष्ठभागस्थः, नुद्यमानः = प्रेर्यमाणः, कश्चन-कोऽपि, नृपः- राजा, यन्त्रस्थसिद्धार्थपदाभिषेकम् - तैलनिपीडकयन्त्रमध्यस्थसर्षपरूपताम्, तद्वत् पीड्यमानोऽपि / लब्ध्वा = प्राप्यापि, स्वम् = आत्मानम्, असिद्धार्थम् =असर्षपम्, मन्यते स्म = जानाति स्म / यः सर्षपो जातः स स्वं सर्षपभिन्नं कयं जानाति स्मेत्यर्थे विरोधः वस्तुतस्तु दमयन्ती प्राप्तिरूपसिविरहितमित्यर्थे समाधानं विरोधपरिहारः, अच संमर्दे यन्त्रस्थ सर्षपवद्विशीर्णस्य मे कुतोऽसिद्धिरिति मन्यते स्मेत्यर्थः / टिप्पणी-पुरस्थैः = पुरः तिष्ठन्तीति पुरस्थाः ‘आतोऽनुपसर्गे कः' इति तिष्ठतेः क प्रत्ययः / अवरुदवा = अवरुद्ध वर्त्म यस्य सः अवरुखवा ( बहुव्रीहिः)। पश्चात्तनः- पश्चाद्भवाः पश्चात्तनास्तः पश्चात्तनः 'सायं प्राह्व' इत्यादिना ट्युल् प्रत्ययः तुडागमश्च / नुबमानः नुद् धातोः कर्मणि लटः शानजादेश।।