________________ 394 नैषधीयचरितं महाकाव्यम् वत्तान्ताः (ष० त०), तेषां साक्षात्कृतिः (10 त० ) तस्यां कृतिनः, तेषु ( स० त०)। "वैज्ञानिकः कृतमुखः कृतिः कुशल इत्यपि / " इत्यमरः / निरस्ताऽऽनन्दं = निरस्त आनन्दो यस्मिन् कर्मणि (बहु०.), तद्यथा तथा। देवताओंके अभिलाषमें साफल्य न होने में हर्ष रहित यह तात्पर्य है। भूतगत्या = भूतस्य गतिस्तया (ष० त० ) / "युक्ते मादावते भूतं प्राण्यतीते समे त्रिपु।" इत्यमरः / “गतिः स्त्री मार्गदर्शयो ने यात्राऽभ्युपाययोः / " इति मेदिनी। अभिलपति स्म = अभि+लप+लट+तिप् / “स्म" के योगसे भूतकाल में लट् / मालिनी छन्द है- “ननमययुतेयं मालिनी भोगिलोकः / " // 159 // श्रीहर्ष कविराजराजिमुकुटाऽलङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / संदृब्धाऽर्णववर्णनस्य नवमस्तस्य व्यरंसीन्महा. काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः // 160 / इति श्रीनैषधीयचरितमहाकाव्ये नवमः सर्गः / अन्वयः-- कविराजराजिमुकुटाऽलङ्कारहीर: श्रीहीरो मामल्लदेवी च जिते. न्द्रियचयं यं श्रीहर्ष सुतं सुपुवे / संदृब्धाऽर्णववर्णनस्य तस्य चारुणि नैषधीयचरिते महाकाव्ये निसर्गोज्ज्वलो नवमः सर्गः व्यरंसीत् / / 160 // __ व्याख्या--कविराजराजिमुकुटाऽलङ्कारहीरः = पण्डितश्रेष्ठश्रेणीकिरीटभूषणवज्रमणिः, श्रीहीरः = तन्नामको जनकः, मामल्लदेवी च = तन्नाम्नी जननी च, जितेन्द्रियचयं = वशीकृतहृषीकसमूह, यं, श्रीहर्ष = तन्नामकं, सुतं = पुत्रं, सुपुवे = जनयामास / संदब्धाऽर्णववर्णनस्य = ग्रथिताऽर्णववर्णननामकप्रबन्धस्य, तस्य = थीहर्षस्य, चारुणि = मनोहरे, नैषधीयचरिते = तदाख्ये, . महाकाव्ये, निसर्गोज्ज्वल: = स्वभावनिर्मलः, नवमः - नवानां पूरणः, सर्गः = अध्यायः, व्यरंसीत् = विरत:, समाप्त इत्यर्थः // 160 / / __अनुवादः-श्रेष्ठ पण्डितोंकी श्रेणीके मुकुटके अलङ्कार हीरेके समान श्रीहीर और मामल्लदेवीने इन्द्रियोंको जीतनेवाले जिस श्रीहर्ष नामके पुत्रको उत्पन्न किया। अर्णववर्णन नामके प्रबन्धके निर्माता उसके मनोहर नैषधीयचरित महाकाव्यमें स्वभावसे निर्मल नवम सर्ग समाप्त हुआ // 160 // टिप्पणी-बहुत-सा अंश पहले ही विवृत होनेसे संक्षेपमें टिप्पणी की जाती है / सन्दब्धाऽर्णववर्णनस्य = अणवस्य वर्णनम् (10 त० ), सन्दृब्धम् अर्णव.