________________ नवमः सर्गः 377 धातुसे लुङ् + तिप् / “विभाषा प्राधेट्शाच्छासः" इससे सिच्का वैकल्पिक लुक् / दूसरे पक्षमें "असासी।" ऐसा रूप होता है / / 140 / / विदर्भराजप्रभवा ततः परं त्रपासखी वक्तुमलं न सा नलम् / पुरस्तमूचेऽभिमुखं यदत्रपा ममज्ज तेनैव महाहव ह्रियः // 141 // अन्वयः - सा विदर्भराजप्रभवा ततः परं त्रपासखी ( सती ) नलं वक्तुं न अलम्, पुरः अत्रपा ( सती ) यत् तम् अभिमुखम् ऊचे, तेन एव ह्रियो महाह्रदे ममज्ज // 141 // व्याख्या-सा = प्रसिद्धा, विदर्भराजप्रभवा = दमयन्ती, ततः परं - तदनन्तर, "नलोऽय” मितिज्ञानाऽनन्तरमिति भावः / त्रपासखी = लज्जासहचरी, लज्जिता इति भावः, नलं = नैषधं, वक्तुं = संभाषितुं, साक्षादिति शेषः / न अलं :- न समर्थाऽभूत् / पुरः = पूर्व, नलज्ञानात्प्रागिति शेषः / अत्रया - निर्लज्जा सती, यत्, तं = नलम्, अभिमुखं = सम्मुखं यथा तथा, ऊचे = भाषितवती, तेन एव = अभिमुखवचनेन हेतुना एव, ह्रियः = लज्जायाः महाह्र दे = विशालसरसि, ममज्ज = मग्ना / / 141 / / ___ अनुवादः-वे दमयन्ती “ये नल हैं" ऐसा जाननेके अनन्तर लज्जित होती हुई नलसे भापण करने के लिए समर्थ नहीं हई / नलको पहचानने के पहले निर्लज्ज होकर उन्होंने नलके संमुख जो भाषण किया उसीसे वे लज्जाके विशाल सरोवरमें निमग्न हो गईं // 141 // / टिप्पणी-विदर्भराजप्रभवा = विदर्भाणां राजा (10 त०)। प्रभवति अस्मादिति प्रभवः, प्र+भू+अप, "ऋदोरप्' इससे अप प्रत्यय / विदर्भराजः प्रभवः यस्याः सा ( बह० ) / पासखी = पायाः सखी ( 10 त० ) / वक्तुं = वच् + तुमुन् / अत्रपा = अविद्यमाना त्रपा यस्याः सा ( नन्-बहु० ) / महाह्रदे = महांश्चाऽसौ ह्रदः, तस्मिन् (क० धा० ) / ममज्ज = मस्ज + लिट् +तिप ( णल ) / इस पद्यमें "ह्रियो महाह्रदे" यहाँपर व्यधिकरण रूपक अलङ्कार है / / 141 / / यदाऽपवार्याऽपि न दातुमुत्तरं शशाक सख्याः श्रवसि प्रियाय सा। विहस्य सख्येव तमब्रवीत्तदा ह्रियाधुना मौनधना भवत्प्रिया / / 142 // अन्वयः-सा यदा अपवार्य अपि सख्या: श्रवसि प्रियाय उत्तरं दातुं न शशाक, तदा सखी एव विहस्य तम् अब्रवीत् - "अधुना भवत्प्रिया ह्रिया मौन. धना // 142 //