________________ नवमः सर्गः .. व्याख्या-हे सुराः = हे इन्द्रादयो देवाः !, मदुग्रतापव्ययशक्तशीकरः = मदतितीव्रसन्तापशान्तिसमर्थजलकणः, सः = प्रसिद्धः, वः = युष्माकं, कृपाऽर्णवः = दयासमुद्रः, केन = जनेन, पपे = पीतः, अगस्त्येन प्रसिद्धसमुद्र इवेति भाव: / सङ्कल्पकणश्रमेण = चिन्तनलेशप्रयासेन, मदुत्तमा = मदधिका, कोटिः = उत्कर्षः, उत्कर्षाश्रयभूता वधूरिति भावः / वः = युष्माकं, मुदे प्रीतये, आशु = शीघ्रं, न उदेति किम्-न आविर्भवति किमु ? तस्मादनुकम्पास्पदे जने विपरीताचरणमनुचितमिति भावः // 95 // ___ अनुवाद:-हे देवताओं / मेरे तीव्रतांपकी शान्तिके लिए समर्थ जलकणवाले प्रसिद्ध आप लोगोंके दयासागरको किसने पी लिया है ? सङ्कल्पके लेशमात्रके प्रयाससे मुझसे श्रेष्ठ कोई स्त्री आपलोगोंकी प्रीतिके लिए प्रकट नहीं होती है क्या ? // 95 // टिप्पणी-मदुग्रतापव्ययशक्तशीकरः = उग्रश्चाऽसो तापः ( क० धा० ), मम उग्रतापः (10 त० ), तस्य व्ययः (10 त०)। शक्ता: शीकरा यस्य सः (बहु०)। मदुग्रतापव्यये शक्तशीकरः ( स० त०)। कृपाऽर्णवः = कृपाया अर्णवः (ष० त०) / पपे = पा+ लिट् ( कर्ममें )+त (श ) / सङ्कल्पकणश्रमेण = सङ्कल्पस्य कण: (10 त० ), तस्य श्रमः ( ष० त०), तेन / मदुत्तमा मत् उत्तमा ( प० त० ) / कोटि: = "अत्युत्कर्षाऽश्रयः कोटय" इत्यमरः / उदेति = उद् + इण् + लट् + तिप् / दयापात्र जनमें विपरीत आचरण अनुचित है, यह भाव है // 95 // ममेव वार्दिवमचर्दिनः प्रसह्य वर्षासु ऋतो प्रसञ्जिते। कथं नु शृण्वन्तु सुषुप्य देवता भवत्वरण्येरुदितं न मे गिरः ? / / 96 // अन्वयः-वा अहदिवं मम एव अश्रुदुर्दिनः प्रसह्य वर्षासु ऋतो प्रसञ्जिते देवताः सुषुप्य मे गिरः कथं शृण्वन्तु नु? ( अत एव ) मे गिरः कथम् अरण्येरुदितं न भवतु ? // 96 // ___ व्याख्या-वा = अथवा, अहर्दिवम् = अहरहः, मम एव, अश्रुदुर्दिनः = नयनसलिलवरित्यर्थः / प्रसह्य = बलात, वर्षासु ऋतौ = वर्षतों, प्रसञ्जिते = प्रवर्तिते सति, देवता: = इन्द्रादयो देवाः, सुषुप्य = सुष्ठु सुप्त्वा, मे = मम, गिरः- विलापवचनानि, कथं = केन प्रकारेण, शृण्वन्तु नु = आकर्णयन्तु नु ? अत एव, मे = मम, गिरः = विलापवचनानि, कथं = केन प्रकारेण, अरण्येरुदितम् = अरण्यरोदनप्रायं, न भवतु = नो भवेत् // 96 //