________________ नवमः सर्गः . अनुवादः- हे दमयन्ति ! तुम इन्द्रसे प्रसन्न होओ। जगत्पति ( इन्द्र) निरन्तर अपने शरीरको तुम्हारे शरीरके सम्पर्कसे उत्पन्न तथा इन्द्राणीके नेत्रोंके तीक्ष्ण कण्टक रोमाञ्चोंसे पूर्ण करें ( इन्द्राणीकी सपत्नी बनो ) // 53 // टिप्पणी-तस्मै = "क्रियया यमभिति सोऽपि सम्प्रदानम्" इससे सम्प्रदानसंज्ञा होनेसे चतुर्थी : प्रसीद = प्र+सद् + लोट् + सिप् / जगत्प्रभुः = जगतः प्रभुः / ष० त० ) त्वदङ्गसङ्गप्रभवः = तव अङ्गानि ( ष० त०) तेषां सङ्गः / 10 त० ), स प्रभवः ( उत्पत्ति कारणम् ) येषां ते, तैः ( बहु० ) / पुलोमजालोचनतीक्ष्णकण्टकः = पुलोमजाया लोचने (ष० त०), "पुलोमजा शचीन्द्राणी" इत्यमरः / तीक्ष्णाश्च ते कण्टकाः (क० धा०) / पुलोमजालोचनयोः तीक्ष्णकण्टकाः, तैः (10 त०)। "वेणी द्रुमाङ्गे रोमाञ्च क्षुद्रशत्रो च कण्टकः।" इति वैजयन्ती। आतनुताम् = आङ + तन् + लोट् + त / हे दमयन्ति ! तुम्हारे साथ विवाह होनेसे तुम्हारे अङ्गोंके सम्पर्कसे इन्द्रके शरीरमें जो कण्टक (रोमाञ्च) होगा वह सपत्नी भावके कारण इन्द्राणीको कण्टक (काँटा) के समान होगा, यह भाव है। तुम इन्द्राणीकी सपत्नी ( सौत ) बनो, यह तात्पर्य है। इस पद्यमें रोमाञ्चमें कण्टकत्वका आरोप होनेसे रूपक अलङ्कार है / / 53 // अबोधि तत्वं, दहनेऽनुरज्यसे स्वयं खलु क्षत्रियगोत्रजन्मनः / विना तमोजस्विनमन्यतः कथं मनोरथस्ते वलते विलासिनि ! // 54 // अन्वयः हे विलासिनि ! तत्त्वम् अबोधि, स्वयं दहने अनुरज्यसे खलु / क्षत्रियगोत्रजन्मनःते मनोरथः ओजस्विनं तं विना अन्यतः कथं वलते? // 54 // व्याख्या -हे विलासिनि = हे विलासशीले !, तत्त्वं = परमाऽर्थस्वरूपं, त्वन्मनोरथरूपम् इति भावः / अबोधि=बुद्धम्, कि तदित्याह-दहन इति ! स्वयम् = आत्मनैव, प्रेरणाऽभावेऽपीति भावः / दहने = अग्नी, अनुरज्यसे = अनुरक्ताऽसि, खलु = निश्चयेन / दहनाऽनुरागं समर्थयते-क्षत्रियेति / क्षत्रियगोत्रजन्मनः = क्षत्रवंशजायाः, ओजस्विकुलप्रसूताया इति भावः / ते = तव, मनोरथः = अभिलाषः, ओजस्विनं, = तेजस्विनं, तं = दहनं विना = अन्तरेण, अन्यतः = अन्यत्र / कथं = केन प्रकारेण, वलते = प्रवर्तते, न कथमपीति भावः / / 54 // अनुवाद-हे विलासशीले ! परमार्थस्वरूप तुम्हारा मनोरथ जान लिया 20 न० न०