________________ 252 नैषधीयचरित महाकाव्यम् सुधासरःसु त्वदनङ्गतापः शान्तो न न: कि पुनरप्सरःसु ? / . निर्वाति तु त्वन्ममताऽक्षरेण सूनाऽऽशुगेषोर्मधुशीकरेण // 100 / / अन्वयः- ( हे दमयन्ति ! ) सुधासरःसु नः त्वदनङ्गतापः न शान्तः, अप्सरःसु किं पुन: ? तु सूनाऽऽशुगेषोः मधुशीकरण ‘त्वन्ममताऽक्षरेण निर्वाति // 100 // ___ व्याख्या --सुधासरःसु = अमृतसरसीषु, नः = अस्माकं, त्वदनङ्गतापः = भवद्विहितमदनसन्तापः, शान्तः = निवृत्तः, नन वर्तते / अप्सर:सु = उर्वश्यादिस्वर्वेश्यासु, किं पुनः = किमुत / तु = किन्तु, सूनाऽऽशुगेषोः = कामबाणस्य, मधुशीकरण = मकरन्दबिन्दुना, तत्सदृशेनेति भावः / त्वन्ममताऽक्षरेण = भवन्ममत्वव्यञ्जकवाक्येन 'मदीया यूयम्" इत्येवंरूपेणेति भावः / निर्वाति = शाम्यति / यद्विरहादयं तापः स तत्सङ्गमेनैव निर्वाति न उपायान्तरेणेति भावः / / 100 / / __ अनुवादः -(हे दमयन्ति ! ) अमृतके तालाबोंमें हम लोगोंका तुमसे किया गया कामसन्ताप शान्त नहीं होता है। उर्वशी आदि अप्सराओंमें शान्त नहीं होता है यह क्या कहना है ? किन्तु कामबाण (पुप्प ) के मकरन्दबिन्दुस्वरूप तुम्हारे ममताके वाक्यसे शान्त होता है / / 100 // . टिप्पणी-सुधासरःसु % सुधायाः सरांसि, तेषु (ष० त० ) / त्वदनङ्गतापः = अनङ्गम्य ताप: (प० त० ), त्वत्कृतः अनङ्गतापः ( मध्यम समासः ) शान्त: = शम्+क्तः+ सुः / सूनाऽऽशुगेषोः = सूनानि ( पुष्पाणि) आशुगाः ( बाणाः ) यस्य सः ( बहु० ), सूनाऽऽशुगस्य ( कामस्य ) इषुः, तस्य (प० त०) / मधुशीकरण = मधुनः शीकरः, तेन ( ष० त० ) / ममताक्षरेण = ममताया अक्षरः, तेन (10 त० ), निर्वाति = निर + वा+लट् +तिप् / हे दमयन्ति ! जिस तुम्हारे विरहसे यह सन्ताप है वह तुम्हारे संगमसे ही हट सकता है, और कुछ उपाय नहीं है यह भाव है। इस पद्यमें अर्थापत्ति अलङ्कार खण्ड: किमु त्वगिर एव खण्डः, किं शर्करा तत्पथशक रैव / कृशाङ्गि ! तद्भङ्गिरसोत्थकच्छतणं नु दिक्षु प्रथितं तदिक्षः / / 101 // अन्वयः - हे कृशाङ्गि ! खण्ड: त्वगिर एव खण्डः किमु ? ( तथा ) शर्करा तत्पथशर्करा एव कि? दिक्षु प्रथितम् इक्षुः तत् तद्भङ्गिरसोत्थकच्छतृणं नु ? // 101 / / ___व्याख्या-हे कृशाङ्गि-हे तन्वङ्गि!, खण्डः = खण्डशर्करा, त्वगिर एव = स्वद्वाण्या एव, खण्डः = वकल:, किमु = किम् ? तथा शर्करा = सिताऽऽख्यशर्करा,