________________ नेषषीयचरितं महाकाव्यम् नाभि०" इत्यादि सूत्रसे 'समान' के स्थानमें 'स' भाव / इस पद्यमें वाक्याऽर्थहेतुक काव्यलिङ्ग अलङ्कार है // 28 // न मन्मयस्त्वं स हि नाऽस्तिमतिनं वाऽऽश्विनेयः स हि नाऽद्वितीयः। चिह्नः किमन्यस्य वा तवेयं श्रीरेव ताभ्यामधिको विशेषः // 29 // अन्वयः-( है महोदय !) त्वं मन्मथो न, हि स नाऽस्तिमूर्तिः, वा त्वम् आश्विनेयः न, हि सः अद्वितीयो न, अथ वा अन्यः चिह्नः किं ? (किन्तु ) तव इयं श्रीः ताभ्याम् अधिको विशेषः // 29 // ___ व्याख्या-( हे महोदय !) त्वं, मन्मथः = कामदेवः, न, हि = यस्मात्, सः = मन्मथः, नाऽस्तिमूर्तिः = अनङ्गः, वा = अथ वा, त्वम्, आश्विनेयः = अश्विनीकुमारः, न - न असि / हि = यतः, सः - अश्विनीकुमारः, अद्वितीयः = एकाकी, न = न अस्ति, सद्वितीय इति भावः / अथ वा = यद्वा, अन्यः - अपरः, चिह्रः = अभिज्ञानः, किम् ?, किन्तु तव = भवतः, इयं = सन्निकृष्टस्था, श्री:शोभा एव, ताभ्यां = मन्मथाऽश्विनेयाभ्याम्, अधिकः = असाधारणः, विशेषः = व्यावर्तकधर्मः तस्मादन्यः कोऽपि लोकोत्तरस्त्वमिति तत्त्वं किन्तु नलश्चेदसि धन्या भवामीति भावः // 29 // अनुवादः-(हे महोदय ! ) आप कामदेव नहीं हैं, क्योंकि वह अनङ्ग है, अथ वा आप अश्विनीकुमार भी नहीं हैं, क्योंकि वे अकेले ( एकमात्र ) नहीं हैं। अथ वा और चिह्नोंसे क्या होता है ? किन्तु आपकी यह शोभा उन दोनों कामदेव और अश्विनीकुमारसे अधिक व्यावर्तक ( असाधारण ) धर्म है // 29 // टिप्पणी-अस्ति मूर्तिर्यस्य सः ( बहु० ), "अस्ति" यह तिङन्तप्रतिरूपक अव्यय है। न अस्तिमूर्तिः ( सुप्सुपा० ) / आश्विनेयः = अश्विन्या अपत्यं पुमान् "स्त्रीभ्यो ढक्" इस सूत्रसे ढक् ( एय ) प्रत्यय, "किति च" इससे आदिबद्धि / अद्वितीय: = अविद्यमानो द्वितीयो यस्य सः ( बहु० ) // 29 // आलोकतृप्तीकृतलोक ! यस्त्वामसूत पीयूषमयूखमेतम् / कः स्पादितुं धावति साघु सार्धमुदन्वता नन्वयमन्ववायः // 30 // अन्वयः-हे आलोकतृप्तीकृतलोक ! यः एतं त्वाम् ( एव ) पीयूषमयूखम् असूत / (अत एव ) उदन्वता साधु साधु स्पद्धि धावति, अयम् अन्ववायः कः ? ननु // 30 // . ___व्याख्या हे आलोकतृप्तीकृतलोक = हे दर्शनसन्तर्पितजन !, यः = अन्ववायः, एतम् = अतिसमीपवर्तिनं, त्वां = भवन्तम् एव, असूत = अजनयत,