________________ अष्टमः सर्गः यथाकृतिः काचन ते यथा वा दोवारिकाधकरणी च शक्तिः / रुच्यो रुचीभिजितकाबनीभिस्तथास पोयूषभुजां सनाभिः // 28 // अन्वयः-( हे पुरुषश्रेष्ठ ! ) यथा ते आकृतिः काचन, यथा वा दौवारिकाऽन्धङ्करणी शक्तिश्च काचन, (किञ्च ) जितकाञ्चनीभिः रुचीभिः रुच्यः असि, तथा पीयूषभुजां सनाभिः असि // 28 // . व्याख्या-यथा = येन प्रकारेण, तं = तव, आकृतिः = मूर्तिः, काचन = अनिर्वाच्या, अमानुषीति भावः, यथा वा = येन प्रकारेण वा, दोवारिकाऽन्धःकरणी = द्वाररक्षकान्धताकारिणी, शक्तिश्च = सामर्थ्य च, काचन = असाधारणी, अमानुषीति भावः / किञ्च जितकाञ्चनीभिः = पराजितहरिद्राभिः, रुचीभिः = कान्तिभिः, रुच्यः = देदीप्यमानः, असि = विद्यसे, तथा = तेन प्रकारेण, पीयूषभुजाम् = अमृतभक्षकाणां, देवानामिति भावः, सनाभिः = बन्धुः, असि = विद्यसे, त्वं कश्चिद्दिव्यपुरुष इति मन्ये, इति भावः // 28 // ___ अनुवादः-(हे महोदय ! ) जैसी आपकी आकृति असाधारण है और जैसी द्वारपालोंको अन्धे कर देनेकी शक्ति असाधारण है तथा हरिद्रा ( हल्दी )को जीतनेवाली कान्तियोंसे आप देदीप्यमान हैं उस कारणसे आप देवताओंके बन्धु हैं // 28 // टिप्पणी-दौवारिकाऽन्धकरणी = द्वारे नियुक्ता दौवारिकाः, द्वार शब्दसे "तत्र नियुक्तः" इस सूत्रसे ठक् ( इक ) प्रत्यय आर "द्वारादीनां च" इससे ऐच आगम / अनन्ध अन्धः यथा संपद्यते तथा क्रियते अनया इति अन्धङ्करणी, अन्ध उपपदपूर्वक कृ धातुसे “आढयसुभगस्यूलितनग्नाऽन्धप्रियेषु च्व्र्थेष्वच्वो कृतः करणे ख्युन्" इस सूत्रसे ख्युन् प्रत्यय, 'अरुद्विषदजन्तेषु मुम्" इससे मुम् आगम और "नस्नबीकमुस्तरुणतलुनानामुपसंख्यानम्" इस वार्तिकसे ङीप् / दौवारिकाणाम् अन्धत रणी (प० त०)। जितकाञ्चनीभिः = जिता काञ्चनी याभिस्ता जितकाञ्चन्यः, ताभिः ( बहु०), "निशाऽऽख्या काञ्चनी पीता हरिद्रा वरवणिनी।" इत्यमरः। समासाऽन्तविधिकी अनित्यतासे "नद्यतश्च" इससे समासाऽन्त कप् प्रत्यय नहीं हुआ। रुचीभिः = रुचि शब्दसे “कृदिकारादक्तिनः" इससे ङीष् / रुच्यः = रोचत इति रुच् धातु से "राजसूयसूर्यमृषोद्यरुच्यकुप्य. कृष्टपच्याऽव्यथ्याः" इस सूत्रसे क्यप् प्रत्ययका निपात / पीयूषभुजां = पीयूषं भुञ्जन्तीति पीयषभुजः, तेषाम् / पीयूष + भुज् + क्विप् ( उपपद०) + आम् / सनाभि-समाना नाभिः ( मूलम् ) यस्य सः ( बहु० ), ज्योतिर्जनपदगरात्रि