________________ नैषधीयचरितं महाकाव्यम् तैः ( स० त० ) / प्रवालप्रबलाऽरुणं प्रबलं च तत् अरुणम् (क० धा०)। प्रवालात् प्रबलाऽरुणम् (प० त०)। ध्रुवम् यह उत्प्रेक्षाव्यञ्जक शब्द है / इस पद्य में उपमा, अतिशयोक्ति और उत्प्रेक्षा इनमें अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है // 99 // रुवारणा सर्वगणयन्त्या भम्याः पदं श्रीः स्म विषेर्वणीते / ध्रुवं स तामच्छलयद्यतः सा भूशाऽरुणैतत्पदभाग विभाति // 10 // अन्वयः-- श्री रुषा अरुणा ( सती ) सर्वगुणः जयन्त्या भैम्याः पदं विधेः वृणीते स्म / स ताम् अच्छलयत् ध्रुवम् / यतः सा एतत्पदभाक् ( सती ) भृशाऽ. रुणा विभाति // 10 // व्याख्या-श्रीः = लक्ष्मीः, रुषा = पराजयक्रोधेन, अरुणा = रक्तवर्णा ( सती ), सर्वगुणैः = सकलगुणः, जयन्त्याः -विजयं कुर्वन्याः, आत्मानम् अतिक्रामन्त्या इति भावः, भैम्याः = दमयन्त्याः, पदं स्थानं, विधेः = ब्रह्मदेवात् / वृणीते स्म = वने / सः विधिः, तांश्रियम्, अच्छलयत् = प्रता. रितवान्, ध्रुवम् उत्प्रेक्षायाम् / स्थानरूपपदप्रार्थनायां चरणरूपपददानामिति भावः / यतः यस्मात्कारणात, सा = श्री:, एतत्पदभाक् = दमयन्तीचरणाश्रिता सती, भृशाऽरुणा = अत्यर्थरक्तवर्णा, विभाति = शोभते / आरुण्यप्रत्यभिज्ञानाद्दमयन्तीचरण एव श्रीस्थानमिति जानीम इति भावः // 10 // अनुवादः-लक्ष्मीने दमयन्तीसे पराजित होनेसे क्रोधसे लाल होकर सब स्त्रीगुणोंसे जीतनेवाली दमयन्तीके पद ( स्थान ) प्राप्त करने लिए ब्रह्मासे वर मांगा / ब्रह्माजीने उनको प्रतारित किया ऐसा मालूम होता है। क्योंकि लक्ष्मी दमयन्तीके चरणको आश्रय करके अत्यन्त लाल होकर शोभित हो रही हैं // 100 // टिप्पणी-सर्वगुणः = सर्वे च ते गुणाः, तैः (क० धा० ) / जयन्त्या= जि+ लट् ( शतृ )+ङीप् + टा। पदं = "पदं व्यवसितत्राणस्थानलक्ष्माऽङ्घ्रि वस्तुषु / " इत्यमरः / वृणीते स्म = वृन् + लट् +त / "स्म" के योगमें भूताऽर्थमें लट् / एतत्पदभाक् = पदं भजतीति पदभाक्, पद+भज् +ण्वि (उपपद०)+ सु / एतस्याः पदभाक् ( ष० त०)। भशाऽरुणा= भृशम् अरुणा (सुप्सुपा०)। दमयन्तीके चरणोंमें ज्यादा लालिमाको देखनेसे दमयन्तीका चरण ही लक्ष्मीका स्थान है ऐसा हम मानते हैं यह भाव है / दमयन्तीके चरण अतिशय रक्त वर्णवाले हैं यह तात्पर्य है / इस' पद्यमें उत्प्रेक्षा अलङ्कार है / / 100 //