SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ 155 सप्तमः सर्ग: अस्याः खलुग्रन्थिनिबद्ध केशमल्लोकदम्बप्रतिबिम्बवेशात् / स्मरप्रशस्ती रजताक्षरेयं पृष्ठस्थ गोहाटकपट्टिकायाम् // 87 // अन्वयः-- अस्याः पृष्ठस्थलीहाटकपट्टिकायां ग्रन्थिनिबद्ध केशमल्लीकदम्ब प्रतिबिम्बवेशात् इयं रजताऽक्षरा स्मरप्रशस्तिः खलु // 87 // व्याख्या-दमयन्त्याः पृष्ठस्थली वर्णयति - अस्या इति / अस्याः = दमयन्त्याः / पृष्ठस्थलीहाटकपट्टिकायां = कायपश्चाद्भागसुवर्णफलके, ग्रन्थिनिबद्ध केशमल्लीकदम्बप्रतिबिम्बवेशात् = बन्धसयतकचमल्लीपुष्पसमूहप्रतिच्छायाप्रवेशात्, इयम् = एषा, रजताऽक्षरा = रूप्यमयवर्णा, स्मरप्रशस्तिः = कामवर्णना, खलु = निश्चये / अनुवाद'-दमयन्ती की पीठरूप सुवर्णपट्टिकामें गाँठसे बंधे हुए केशोंमें मल्लिकापुष्पोंके प्रतिबिम्बों के प्रवेशसे यह रजताक्षरसे लिखी गई कामदेवकी प्रशस्ति है क्या ? // 87 // ___ टिप्पणी-पृष्ठस्थलीहाटकपट्टिकायां = पृष्ठस्य स्थली (10 त०) "पृष्ठं तु चरमं तनोः” इत्यमरः / हाटकस्य पट्टिका (ष० त० ) / पृष्ठस्थली एव हाटकपट्टिका ( रूपक० ), तस्याम् / ग्रन्थिनिबद्ध केशमल्लीकदम्बप्रतिबिम्बवेशात् = ग्रन्थिना निबद्धाः, (तृ त• ), ते च ते केशा: ( कर्मधा० ) / मल्लीनां कदम्बं (ष० त० ) / ग्रन्थिनिबद्ध केशेषु मल्लीकदम्बं ( स० त० ) तस्य प्रतिबिम्बः ( ष० त० ), तस्य वेश: ( प्रवेशः ), तस्मात् (ष० त० ) / रजताऽक्षरा = रजतस्य अक्षरा यस्यां सा ( व्यधिकरणबह० ) / स्मरप्रशस्तिः = स्मरस्य प्रशस्तिः ( ष० त० ) / दमयन्तीका पृष्ठभाग सुवर्णपट्टिका. स्वरूप है, उसमें प्रतिबिम्बित केशपाशस्थित मल्लिकापुष्प मानों चाँदोके अक्षरोंसे लिखित कामदेवकी प्रशस्तिवर्णावलीके सदृश शोभित हो रहे हैं, इस प्रकार यहाँपर उत्प्रेक्षा अलङ्कार है // 87 // चक्रेण विश्वं यदि मत्स्यकेतुः पितुजितं वीक्ष्य सुदर्शनेन / जगज्जिगोषत्यमुना नितम्बद्व येन किं दुर्लभदर्शनेन / / 88 // अन्वयः-मत्स्यकेतुः सुदर्शनेन पितुः चक्रेण विश्वं जितं वीक्ष्य यदि अमुना दुर्लभदर्शनेन नितम्बद्वयेन जगत् जिगीषति किम् ? / / 88 // __ व्याख्या -- पद्यद्वयन दमयन्त्या नितम्बं वर्णयति-चक्रेणेति / मत्स्यकेतुः= कामः, सुदर्शनेन = सुदर्शनाख्येन सुलभदर्शनेन च, पितः = जनकस्य विष्णोरिति भावः, चक्रेण = चक्राकारेण आयुधविशेषेण, विश्व = जगत् , जितं = पराजितं
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy