________________ 112 नैषधीयचरितं महाकाव्यम् क्त+टाप्+सुः / बिभ्यतीभ्यः = बिभ्यतीति / बिभ्यत्यः, ताभ्यः भी+ लट् ( शतृ )+ डीप् +भ्यस् / भयकी अवस्थामें ज्यादा शोभा होती है / भूयोगुणाभूयांसो गुणा यस्याः सा ( बहु० ) / बलात् = बलम् आश्रित्य, ल्यप्के लोपमें पञ्चमी / अलभ्यत = लभ् + लङ् ( कर्ममें )+ त / बहुत डरनेवाले कर्जगार ( ऋणी ) सब ऋण चुका देते हैं, यह तात्पर्य है / इस पद्यमें उत्प्रेक्षा अलङ्कार है / / 33 / / दृशो किमस्याश्चपलस्वभावे न दूरमाक्रम्य मिथो मिलेताम् / न चेत्कृतः स्यात्नयोः प्रयाणे विघ्नः श्रवःकूपनिपातभीत्या // 14 // अन्वयः- अनयोः प्रयाणे श्रवःकूपनिपातभीत्या विघ्नः कृतो न स्यात् चेत्, चपलस्वभावे अस्या दृशौ दूरम् आक्रम्य मिथो न मिलेतां किम् ? / / 34 // व्याख्या-अनयोः = दमयन्तीदृशोः, प्रयाणे+दूरगमने, श्रवःकूपनिपातभीत्या = कर्णकूपनिपतनभयेन, विघ्नः = अन्तरायः, कृतः = विहितः, न स्यात् चेत् = नो भवेत् यदि, चपलस्वभावे 3 चञ्चलशीले, अस्याः = दमयन्त्याः , दृशौ = नयने, दूरं = विप्रकृष्टम् आक्रम्य = गत्वा, मिथः = अन्योन्यं, न मिलेतां किं = न संगच्छेयाताम् किम् ? दमयन्त्या नेत्रे आकर्णपूणे चञ्चलतरे चेति भावः // 34 // ____ अनुवादः--दमयन्तीके नेत्रोंके दूर गमनमें कर्णरूप कुएँ में गिरनेके भयने विघ्न नहीं किया होता तो चञ्चल स्वभाववाले उनके नेत्र दूर जाकर परस्परमें नहीं मिलते क्या ? // 34 // टिप्पणी--श्रवःकूपनिपातभीत्या = श्रवसी एव कुंपो ( रूपक० ), "कर्ण - शब्दग्रही श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः / " इत्यमरः / श्रवःकूपयोः निपातः ( स० त० ), तस्मात् भीतिः, तया (प० त०)। चपलस्वभावे = चपलः स्वभावो ययोस्ते ( बहु० ) / आक्रम्य = आङ् + क्रम् + क्त्वा ( ल्यप् ) / मिलेताम् = मिल + विधिलिङ् + तस् (ताम् ) / दमयन्तीके नेत्र कानतक विस्तीर्ण और अत्यन्त चञ्चल हैं, यह अभिप्राय है। इस पद्य में रूपक और उत्प्रेक्षाका अङ्गाङ्गिभावसे अलङ्कार है // 34 // केदारभाजः शिशिरप्रवेशात् पुण्याय मन्ये मृतमुत्पलिन्या। जाता यतस्तत्कुसुमेक्षणेयं यतश्च तत्कोरकदृक चकोरः // 35 // अन्वय:- केदारभाजा उत्पलिन्या शिशिरप्रवेशात् पुण्याय मृतं मन्ये / यत इयं तत्कुसुभेक्षणा जाता। यतश्चचकोरश्च तत्कोरकदृक् (जातः) // 35 / /