________________ नैषधीयचरितं महाकाव्यम् टिप्पणी-स्थिराऽस्थं = स्थिरा आस्था यस्मिन् कर्मणि, ( बहु० ), तद्यथा तथा ( क्रि० वि०)। आयातवतीम् = आङ्+या + क्तवतु +डीप+ अम् / परेतभर्तुः = परस्मिन् (लोके ) इताः ( स० त०), परेतानां भर्ता, तस्य (10 त० ) / अनिलसख्यभाजः = अनिलेन सख्यं (तृ० त०), तद् भजतीति अनिलसख्यभाक्, तस्य, "भजो ण्विः" इससे ण्विप्रत्यय / अनिलसख्य+भज्+ ण्विः ( उपपद० ) + ङस् / त्रिस्रोतसा = त्रीणि स्रोतांसि ( प्रवाहाः ) यस्याः सा, (बहु० ) तया / अम्बुपतेः = अम्बुनः पतिः, तस्य (ष. त० ) / निरास्थं = निर्-उपसर्गपूर्वक "असु क्षेपणे" इस धातुसे लुङ+ मिप्, लिके स्थानमें "अस्यतिवक्तिख्यातिभ्योऽङ्" इस सूत्रसे अङ् आदेश / “अस्यतेस्थुक" इससे थुक् आगम / यमराज, अग्नि और वरुणकी दूतियोंको दूरसे ही मैंने हटा दिया / इन्द्रके गौरवसे इतने समयतक तुम ( इन्द्र की दूती ) से भाषण किया यह भावार्थ है। इस पद्यमें मन, वायु और गङ्गाका क्रमसे यमराज, अग्नि और वरुणके आज्ञाकारी होनेसे उनकी प्रीतिके लिए अत्यन्त वेगयुक्त मन आदिसे आई हुई यम आदिकी दूतियाँ थीं, यह उत्प्रेक्षाका अर्थ है / / 109 // भूयोऽर्थमेनं यदि मां त्वमात्य तवा पदावालभसे मघोनः / सतीव्रतेस्तोवमिमं तु मन्तुमन्तः परं वञिणि माजितास्मि // 110 // अन्वयः-(हे इन्द्रदृति ! ) त्वं भूयः एनम् अर्थ माम् आत्थ यदि, तदा मघोनः पदौ आलभसे / वचिणि अन्तः परम् इमं तीवं मन्तुं सतीव्रतः माजितास्मि // 110 // व्याख्या-(हे इन्द्रदूति ! ) त्वं, भूयः = पुनः, एनम् = अमुम, अर्थ - प्रयोजनम्, इन्द्रवरणरूपमिति भावः / माम्, आत्थ यदि-ब्रूषे चेत्, तदा तर्हि, मघोनः = इन्द्रस्य, पदौ - चरणौ, आलभसे = हिनस्सि स्पृशसि वा। इन्द्रकोपमाशङ्कयाऽऽह-सतीव्रतैरिति / वजिणि = इन्द्रे विषये, अन्तः- अन्तःकरणे, स्थितमिति शेपः, परं-दुःसहम्, इमं, तीव्र = तीक्ष्ण, मन्तुम् = अपराध, सतीव्रतैः = पतिव्रताधमः, मार्जितास्मि = मार्जिष्यामि / सतीव्रतज्ञः सर्वज्ञो भगवान् मघवान् मामस्मादपराधादक्षिष्यतीति भावः / / 110 // अनुवाद:-(हे इन्द्रदूति ! ) तुम फिर इस बातको मुझे कहोगी तो तुम्हें इन्द्रके चरणों का शपथ ( कसम ) है / इन्द्र के विषयमें अन्त:करणमें स्थित दुःसह इस तीव्र अपराधको पतिव्रता धर्मोसे मार्जन करूंगी // 110 //