________________ नैषधीयचरितं महाकाव्यम् ___ टिप्पणी-कोमलेच्छुः = कोमलस्य इच्छुः (10 त०) / क्रमेलकम् = "उष्ट्रे क्रमेलक-मय-महाङ्गः" इत्यमरः / कण्टकलम्पट: = कण्टकेषु लम्पट: ( स० त०), "लोलुपं लोलुभं लोलं लम्पटं लालसं विदुः / " इति हलायुधः / निन्दति = णिदि + लट-तिप् / ईष्टभुजो = इष्टं भुङ्क्तः इति इष्टभुजौ, तयोः, इष्ट+भुज् + क्विप् + ( उपपद० )+ ओस् / एकतरोपहासः = एकतरस्य उपहासः (10 त०)। मध्यस्थता % मध्ये तिष्ठतीति मध्यस्थः, मध्य+ स्था+क+ सु / तस्य भावः, मध्यस्थ+तल् +टाप् + सु // 104 // गुणा हरन्तोऽपि हरेनरं मे न रोचमानं परिहारयन्ति / न लोकमालोकयथाऽपवर्गात्रिवर्गमञ्चममुञ्चमानम् / / 105 // अन्वयः--हरन्तोऽपि हरेः गुणा मे रोचमानं नरं न परिहारयन्ति / अपवर्गात् अर्वाञ्चं त्रिवर्गम् अमुञ्चमानं लोकं न आलोकयथ ? // 105 / / / ___ व्याख्या-हरन्तोऽपि = चित्तम् आकर्षन्तोऽपि, हरेः = इन्द्रस्य, गुणाः = ऐश्वर्यशौर्यादयो धर्माः, मे = मह्यं, रोचमानं - प्रीतिविषयभूतं, नरं = मानवं नलं, न परिहारयन्ति = न त्याजयन्ति / कुतः-अपवर्गात्मोक्षात्, अर्वाञ्चं3 निकृष्ट, त्रिवर्ग = धर्माऽर्थकामसमूहम्, अमुञ्चमानम् = अत्यजन्तं, लोकं 3 जनसमूह, न आलोकयथ = न पश्यथेति काकुः // 105 // अनुवादः - चित्तको आकृष्ट करते हुए भी इन्द्रके गुण मेरी प्रीतिके विषयभूत मनुष्य नलको नहीं हटाते हैं। मोक्षसे निकृष्ट धर्म, अर्थ और कामको नहीं छोड़नेवाले जनसमूहको तुमलोग नहीं देख रही हो? // 105 // टिप्पणी- हरन्तः = हृञ् + लट् (शतृ) + जस् / मे, रुच धातुके योगमें "रुच्यर्थनां प्रीयमाणः” इस सूत्रसे सम्प्रदानसंज्ञा होकर चतुर्थी / रोचमानं: रुच + लट् ( शानच् )+ अम् / परिहारयन्ति = परि+हृञ् + णिच् + लट् + झि / त्रिवर्ग = त्रियाणां वर्गः, तम् (ष० त० ) / "त्रिवर्गो धर्मकामाऽर्थः" इत्यमरः / अमुञ्चमानं = न मुञ्चमानः, तम् ( नञ् ) / आलोकयथ = आङ्+ लोक + णिच् +लट् +थ। महाकवि कालिदासने कुमारसंभवमें भगवती पार्वतीके मुखसे ऐसा ही वाक्य कहलाया है--"न कामवृत्तिर्वचनीयमीक्षते। 5-82 / " अर्थात् अपनी इच्छासे चलनेवाला जन लोक क्या कहता है इस प्रकार वचनीयताका विचार नहीं करता है। इस पद्यमें दृष्टान्त अलङ्कार है / / 105 //