________________ षष्ठः सर्गः कण्ठः किमस्याः पिकवेणुवोणास्तित्रो जिताः सूचयति त्रिरेखः / इत्यन्तरस्तूयत कापि यत्र नलेन बाला कलमालपन्ती // 59 // अन्वयः - यत्र कलम् आलपन्ती काऽपि बाला नलेन त्रिरेखः अस्याः कण्ठः पिकवेणुवीणाः तिस्रो जिताः इति सूचयति ? इति अन्तः अस्तूयत किम् // 59 // व्याख्या -अथ कण्ठ इत्यादिभिश्चतुर्दशभिः पद्यैर्दमयन्तीसभां वर्णयतिकण्ठ इति / यत्र = दमयन्तीसभायां, कलं = मधुरम्, आलपन्ती = रागालाप कुर्वती, काऽपि = काचित्, बाला = युवतिः, नलेन = नैषधेन, त्रिरेखः= रेखात्रययुक्तः, अस्याः = बालायाः, कण्ठः = गलः, पिकवेणुवीणाः = कोकिलवंशवल्लक्यः, तिस्रः = अपि, जिताः = पराभूताः, इति, सूचयति किं-सूचनां करोति किम्, इति = एवम्, अन्तः = अन्तःकरणे, अस्तूयतःस्तुता // 59 // अनुवाद:-जिस दमयन्तीकी सभामें मनोहर रागका आलाप करती हुई किसी युवतीको नलने तीन रेखाओंसे युक्त इसके कण्ठने कोयल, वंशी और बीन इन तीनोंको जीत लिया है ऐसी सूचना करता है क्या ? इस प्रकार अन्तःकरणमें प्रशंसा की॥ 59 // टिप्पणी-आलपन्ती = आलपतीति, आङ् + लप+लट् ( शतृ )+ डीप+सुः / त्रिरेखः = तिस्रो रेखा यस्य सः ( बहु० ) / पिकवेणुवीणाः = पिकश्च वेणुश्च वीणा च ( द्वन्द्वः ) / सूचयति = सूच+णिच् + लट् + तिम् / अस्तूयत=ष्टुज+लङ ( कर्ममें )+त / इस पद्य में काव्यलिङ्ग और उत्प्रेक्षाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 59 // एतं नलं तं दमयन्ति ! पश्य त्यजातिमित्यालिकूलप्रबोधान / श्रुत्वा स नारीकरवर्तिशारोमुखात् स्वमाशङ्कत यत्र दृष्टम् / / 60 // अन्वयः-स यत्र नारीकरवर्तिशारीमुखात् 'हे दमयन्ति ! तम् एतं नलं पश्य, आतिं त्यज" इति आलिकुलप्रबोधान् श्रुत्वा स्वं दृष्टम् आशङ्कत // 60 // व्याख्या-सः = नलः, यत्र = दमयन्तीसभायां, नारीकरवर्तिशारीमुखात् = कान्ताहस्तगतशारिकावदनात् हे दमयन्ति हे भैमि !, तं = मनःस्थितम्, एतम् समीपतरवर्तिनम्, नलं = नैषधं, पश्य = विलोकय, आतिं = पीडां, वियोगजनितामिति शेषः / त्यज = मुञ्च, इति = एवंरूपान्, आलिकुलप्रबोधान् = सखीसमूहाश्वासनोक्तीः, श्रुत्वा = आकर्ण्य, स्वम् = आत्मानं, दृष्टं = विलोकितं, ताभिरिति शेषः / आशङ्कित आशङ्कितवान् // 60 //