________________ नैषधीयचरितं महाकाव्यम् रागच्छुरितं = अङ्गे रागः ( स० त० ), तस्य अङ्गरागः (प० त०), तेन छुरितः, तम् ( तृ० त० ) / विस्मरतां = विस्मयशीलाः, विस्मेराः, वि+स्मि+र:+ टाप् / “नमिकम्पिस्म्यजसकमहिंसदीपो र:' इससे रप्रत्यय / विस्मेराणां भावः, तत्ता, ताम् विस्मेर+तल् +टाप् + अम् // 42 // पुंसि स्वभ'व्यतिरिक्तभूते भूत्वाऽप्यवीक्षानियमनतिन्यः / छायासु रूपं भुवि तस्य वोक्य फलं वृशोरानशिरे महिष्यः // 43 // अन्वयः-महिष्यः स्वभर्तृव्यतिरिक्तभूते पुंसि अविक्षानियमवतिन्यो भूत्वा अपि भुवि तस्य छायासु रूपं वीक्ष्य दृशोः फलम् आनशिरे // 43 // व्याख्या-महिष्यः = राजपल्यः, स्वभर्तृव्यतिरिक्तभूते = निजपत्यतिरिक्तभूते, पुंसि = पुरुषे, परपुरुषे विषय इति भावः / अवीक्षानियमवतिन्यो भूत्वा अपि अदर्शनाऽवश्यंभावव्रतवत्यो भूत्वा अपि, भुवि = कुट्टिमभूमौ, तस्य = नलस्य, छायासु = प्रतिबिम्बेषु, रूपम् = आकारं सौन्दयं वा, वीक्ष्य दृष्ट्वा, दृशोः = नेत्रयोः, फलं-साफल्यम्, आनशिरेप्राप्तवत्यः / / 43 / / अनुवादः-राजपत्नियोंने अपने पतिसे अतिरिक्त पुरुष-(परपुरुष ) में न देखनेके संकल्पसे व्रतवाली होकर भी कुट्टिम भूमिमें नलके प्रतिबिम्बोंमें आकर वा सौन्दर्य देखकर नेत्रकी सफलता पा ली / / 43 / / टिप्पणी - स्वभर्तृव्यतिरिक्तभूते = स्वस्या भर्ता ( प० त० ) / व्यतिरिक्तो भूतः (सुप्सुपाः) / स्वभ: व्यतिरिक्तभूतः, तस्मिन् (प० त०)। अवीक्षानियमअतिन्यः = न वीक्षा ( नत्र 0 ) / तस्या नियमः ( प० त० ) तेन वतिन्यः ( तृ० त०)। आनशिरे = अश् + लिट् + झः ( इरेच ), "अश्नोतेश्च" इस मूत्रसे नुट् आगम // 43 // विलोक्य तच्छायमकि ताभिः "पति प्रति स्वं वसुधाऽपि धत्ते। यथा वयं किं मदनं तथैनं त्रिनेत्रनेत्राऽनलकीलनीलम्" || 44 // अन्वयः-ताभिः तच्छायं विलोक्य "यथा वय स्व पति प्रति मदनं दध्महे तथा वसुधा अपि स्वं पति प्रति त्रिनेत्रनेत्राऽनलकीलनीलम् एवं धत्ते किम् ( इति )" अकि / / 44 // व्याख्या-ताभिः = राजपत्नीभिः, तच्छायं = नलच्छायां, नीलामिति शेषः / विलोक्य = दृष्ट्वा, यथा = येन प्रकारेण, वयं = राजमहिष्यः, स्वंस्वकीयं, पति प्रति =भर्तारं भीमं प्रति, मदनं = कामं ( दध्महे = धारयामः )