________________ नैषधीयचरितं महाकाव्यम् * तक्रीडं कुमारचक्रं यस्मिन् सः ( बहु 0 ) / सान्द्रचन्द्ररजोभिः कृतक्रीडकुमारचक्र: तस्मिन् ( तृ० त० ) / चक्रवर्तिचिह्न= चक्रे ( राजमण्डले ) वर्तते (प्रधानत्वेन) तच्छील: चक्रवर्ती, चक्र+वृत् + णिनि: ( उपपद० ), चक्रवर्ती सार्वभौमः" इत्यमरः / चक्रवर्तिनः चिह्न, तत् (10 त० ) / तदध्रिप्रतिमासु = तस्य अज्री ( 10 त०), तयोः प्रतिमाः, तासु ( ष० त० ) / पश्याः = पश्यन्तीति, ताः, दृशधातुसे “पाघ्राध्माधेड्दृशः शः” इस सूत्रसे शप्रत्यय / चक्रे=कृ + लिट्+त // 39 // तारुण्यपुण्यामवलोकयन्त्योरन्योन्यमेणेक्षणयोंरभिख्याम् / मध्ये महतं स बभूव गच्छानाकस्मिकाच्छादनविस्मयाय // 40 // अन्वयः-तारुण्यपुण्याम् अन्योन्यम् अभिख्याम् अवलोकयन्त्योः एणेक्षणयोः मध्ये गच्छन् स मूहूर्तम् आकस्मिकाऽऽच्छादनविस्मयाय बभूव // 40 // व्याख्या–तारुण्यपुण्यां = यौवनसुन्दरीम्, अन्योन्यं = मिथः, अभिख्यां = शोभाम्, अवलोकयन्त्योः = पश्यन्त्योः, एणेक्षणयोः = मृगाक्ष्योः, मध्ये = अन्तरे, गच्छन् = वजन्, = सः = नलः, मुहूर्त = क्षणमात्रम्, आकस्मिकाच्छादनविस्मयाय आकस्मिकाच्छादनेन ( निर्हेतुकव्यवधानेन ) विस्मयाय (आश्चर्याय), बभूव = अभवत् // 40 // ___अनुवादः—यौवनसे सुन्दर और परस्पर शोभाको देखनेवाली मृगनयना दो स्त्रियोंके बीचमें जाते हुए नलने कुछ क्षणतक अकस्मात् व्यवधान होनेसे आश्चर्यको उत्पन्न किया // 40 // टिप्पणी-तारुण्यपुण्यां = तारुण्येन पुण्या, ताम् (तृ० त० ), "पुण्यं तु चार्वपि" इत्यमरः / एणेक्षणयोः = एणस्य ( मृगस्य ) इव ईक्षणे ययोस्ते एणेक्षणे, तयोः ( व्यधिकरणबहु० ) / आकस्मिकाऽऽच्छादनविस्मयाय = आकस्मिकं च तत् आच्छादनम् ( क० धा० ), तेन विस्मयः, तस्मै ( तृ० त० ) / बभूव = भू+ लिट् + तिप् ( णल् ) / इस पद्यमें व्यवधानके कारणके बिना व्यवधानकी उक्ति होनेसे विभावना अलङ्कार है / / 40 // पुरःस्थितस्य क्वचिदस्य भूषारत्नेषु नार्यः प्रतिबिम्बितानि / व्योमन्यदृश्येषु निजान्यपश्यन् विस्मित्य विस्मित्य सहस्रकृत्वः // 41 // अन्वयः–क्वचित् नार्यः पुरःस्थितस्य अस्य अश्येषु भूपारत्नेषु निजानि प्रतिबिम्बितानि व्योमनि विस्मित्य विस्मित्य सहस्रकृत्वः अपश्यन् / / 41 / /