________________ षष्ठः सर्गः "रथ्या प्रतोली विशिखा” इत्यमरः / कृतार्था रथ्या यस्यां सा (बहु०) / भैमीपदस्पर्शेन कृताऽर्थरथ्या ( तृ० त० ) / उत्कलिकाऽऽकुल:=उत्कलिकया आकुलः (तृ० त०)। क्षणम् = कालके अत्यन्त संयोगमें द्वितीया / क्षताऽऽशः=क्षता आशा यस्य सः (बहु०) / निशश्वास-नि+ श्वस + लिट् + तिप् (णल्) // 5 // स्विद्यत्प्रमोदाऽश्रुलवेन वामं रोमाञ्चभृत् पश्मभिरस्य चक्षुः। अन्यत् पुनः कम्प्रमपि स्फुरन्तं तस्याः पुरःप्राप नवोपभोगम् // 6 // अन्वयः-अस्य वामं चक्षुः प्रमोदा वुलवेन स्विद्यत् ( सत् ) पक्ष्मभिः रोमाञ्चभृत् ( सत् ) तस्याः पुरः स्फुरन्तं नवोपभोगं प्राप अन्यत् तु कम्प्रं (सत्) तं प्राप // 6 // ___ व्याख्या-नलस्येष्टप्राप्तिसूचकं दक्षिणनयनस्फुरणं जातमित्याह स्विद्यदिति / अस्य-नलस्य, वाम दक्षिणेतरत, चक्षुः नेत्रं, प्रमोदाऽश्रुलवेन% हर्षवाष्पकणेन, स्विद्यत -स्विन्नं सत्, पक्ष्मभिः नयनलोमभिः, उन्मिषद्भिरिति शेषः / रोमाञ्चभृत्-रोमाञ्चितं सत, तस्याः = पूर्वोक्तायाः, पुरः कुण्डिननगर्याः, स्फुरन्त प्रकाशमानं, नवोपभोगम् अपूर्वदर्शनम् आद्यसंगमं च, प्राप-प्राप्तवत् अन्यत अपरं, दक्षिणं चक्षुः, कम्प्रं = कम्पनशीलं सत् तं नवोपभोगं, प्राप-प्राप्तवत् // 6 // . . अनुवादः-नलके बायें नेत्रने हर्षाश्रुके कणसे स्वेदयुक्त और पलकोंसे रोमाञ्चित होकर उस कुण्डिन नगरीके प्रकाशमान नवीन उपभोग ( अपूर्व दर्शन और पहला संगम ) को पा लिया, दूसरे नेत्र ( दाहिने ) ने कम्पनशील होकर उस ( नवीन उपभोग ) को पा लिया // 6 // टिप्पणी-प्रमोदाऽश्रुलवेन = अश्रुणो लवः (10 त०), प्रमोदेन अश्रलवः, तेन ( तृ० त० ) / स्विद्यत्-स्विद+ लट् ( शत)+सुः / रोमाञ्चभृत = रोमाञ्चं बिभर्तीति, रोमाञ्च+भृ+ क्विप्+सुः / स्फुरन्तं = स्फुर+ लट् ( शतृ )+ अम / नवोपभोगं = नवश्चाऽसौ उपभोगः, तम् ( क० धा० ), प्राप = प्र+आप+लिट् / कम्प्रं = कम्पनशीलम, कपि धातुसे नमिकम्पिस्म्यजसकम हिंसदीपो रः" इससे र प्रत्यय / प्रथम सङ्गम में कम्प, स्वेद और रोमाञ्च आदि होते हैं। पुरुषके दक्षिण नेत्रका फड़कना शुभ फलके लिए होता है ऐसा निमित्तवेदीलोग कहते हैं। इस पद्यमें आनन्दाथ, पलकका उन्मेष और नेत्रस्फुरणमें स्वेद आदि सात्त्विक भावका आरोप करनेसे रूपक अलङ्कार है।