________________ पञ्चमः सर्गः . ___ 167 इत्याकर्ण्य क्षितीशस्त्रिदशपरिषदस्ता गिरवाटुगर्मा वैदर्भीकामुकोऽपि प्रसमविनिहितं दूत्यमारं बभार / अङ्गीकारं गतेऽस्मिन्नमरपरिवृतः सम्भृताऽऽनन्दमूचे भूयावन्तधिसिद्धरनुविहितभवच्चित्तता यत्र तत्र // 137 // अन्वयः-क्षितीशः त्रिदशपरिषदः इति चाटुगर्भाः ता गिरः आकर्ण्य वैदर्भीकामुकः अपि प्रसभविनिहितं दूत्यभार बभार / अस्मिन् अङ्गीकारं गते अमरपरिवृढः "( हे राजन् ! ) यत्र तत्र (अपि ) अन्तधिसिद्धेः अनुविहितभवचित्तता भूयात्" इति सम्भृतानन्दम् ऊचे। व्याख्या--क्षितीशः=राजा नलः, त्रिदशपरिषद: सुरसभायाः, सुरसङ्घस्येति भावः / इति = एवंरूपाः, चाटुगर्भाः=प्रियवचनप्रचुराः, ता:-पूर्वोक्ताः, गिरः=वचनानि, आकर्ण्य =श्रुत्वा, वैदर्भीकामुकः अपि दमयन्त्यभिलाषुकः सन् अपि, प्रसभविनिहितं बलादारोपितं; दूत्यभारं= दौत्यभारं, बभार भृतवान् / अस्मिन् =नले, अङ्गीकारं-दूत्यभारवहनस्वीकारं, गते प्राप्ते सति, अमरपरिवृढः देवप्रभुः, इन्द्र इत्यर्थः, (हे राजन् ! ) यत्र तत्रयस्मिन् तस्मिन्नपि स्थाने, सर्वत्रेति भावः / अन्तधिसिद्धः अन्तर्धानशक्तेः, अनुविहित. भवच्चित्तता=अनुसृतत्वन्मनस्कता, भूयात् =भवतात, भवच्चित्ताऽनुसारेण सर्वत्र भवतः अन्तर्धानशक्तिरस्तु इति भावः / इति=एतादृशं वाक्यं, सम्भृताऽऽनन्दं - सहर्षम्, ऊचे-उवाच, इन्द्रो नलाय तिरस्कारिणी विद्या प्राददिति भावः / --- अनुवाद-राजा नलने देवसमूहके ऐसे खुशामदभरे वचनोंको सुनकर दमयन्तीमें अभिलाषवाले होकर भी जबर्दस्तीसे रक्खे गये दूतकर्मके भारको धारण किया। नलके इन्द्रवचनको स्वीकार करनेपर देवेन्द्रने-“हे राजन् ! जहाँ कहीं भी अपनी इच्छाके अनुसार आपको अन्तर्धानकी सिद्धि हो" ऐसे वचनको आनन्दके साथ कहा।। टिप्पणी-क्षितीशः क्षितेः ईशः (प० त०)। त्रिदशपरिषदः त्रिदशाना परिषद, तस्याः (10 त०)। चाटुगर्भाःचाटूनि गर्भे यासां, ताः ( व्यधिकरणबहु०)। आकर्ण्य = आङ् + कर्ण+णिच् + क्त्वा ( ल्यप् ) / वैदर्भीकामुक; वेदाः कामुकः (10 त० ) / प्रसभविनिहितं-प्रसभं ( यथा तथा) विनिहितः, तम् ( सुप्सुपा० ) / दूत्यभारंदूतस्य भारः, तम् (10 त०).