________________ चतुर्थः सर्गः एवं यदता नृपेण तनया नाऽपृच्छिलज्जाऽऽपवं, यन्मोहः स्मरमरकल्पि वपुषः पाण्डस्वतापादिभिः / यच्चाशी:कपटादवादि सदृशी स्यात्तत्र या सान्त्वना, ____ तन्मत्वाऽऽलिजनो मनोऽग्धिमतनोदानन्दमन्दाक्षयोः // 122 // अन्वयः-एवं वदता नृपेण तनया लज्जापदं यत् न अपृच्छि / मोहः वपुषः पाण्डुत्वतापादिभिः यत् स्मरभूः अकल्पि। तत्र सदृशी या सान्त्वना स्यात्, यत् आशी:कपटात् अवादि / तत् मत्त्वा आलिवर्गः मनः आनन्दमन्दाक्षयोः अब्धिम् अतनोत् / व्याख्या-एवम् इत्थं, वदता=कथयता, नृपेण =राज्ञा भीमेन, तनया पुत्री दमयन्ती, लज्जापदंब्रीडाहेतुं, "लज्जास्पदम्" इति पाठान्तरे व्रीडास्थानमित्यर्थः / यत्, न अपृच्छि-न पृष्टा / ज्ञातांऽशे प्रश्नाऽयोगादिति भावः / मोहः = मूर्छा च, वपुषः=शरीरस्य, पाण्डुत्वतापादिभिः= पाण्डुरत्वसन्तापादिभिः, यत्, कामजः स्मरजन्यः, अकल्पिकल्पितः, तत्र= तस्यां, तनयायां दमयन्त्याम् / सदृशी=अनुरूपा, या सान्त्वना-लालनोक्तिः, स्यात् = भवेत् / यत् आशी कपटात् = आशीर्वादव्याजात्, "दयितमभिमतम्" इत्यादिरूपादिति भावः। अवादि=उक्तम् / तत्स कलं, मत्त्वा = आलोच्य, आलिवर्गः सखीसमूहः, मनः-स्वचित्तम्, आनन्दमन्दाक्षयोः= हर्षलज्जयोः, अब्धि=समुद्रम्, अतनोत् =कृतवान्, स्वचित्तं लज्जाऽऽनन्दसागरं विहितवानिति भावः / स्वेष्टसिद्धेरानन्दः, स्वरहस्यप्रकाशनाल्लज्जेति रहस्यम् / - अनुवाद-ऐसा कहनेवाले राजाने पुत्री दमयन्तीसे जो लज्जाका कारण नहीं पूछा और मूर्छाको शरीरकी पाण्डुता और ताप आदिसे जो कामजन्य समझ लिया। पुत्रीमें अनुरूप जो सान्त्वना हो जाय और जो आशीर्वादके बहानेसे कहा / उन सबको जानकर दमयन्तीकी सखियोंने अपने मनको आनन्द और लज्जाका समुद्र बना डाला। टिप्पणी-वदता=वद+लट (शत)+टा। लज्जापदं-लज्जायाः पदम् (10 त०)। अपृच्छि-प्रच्छ धातुके दुहादिगणमें पढ़े जानेसे अप्रधान कर्ममें लुङ। पाण्डुत्वतापादिभिः पाण्डु+ त्व। पाण्डुत्वं च तापश्च ( द्वन्द्वः ) / तो आदी येषां ते, तैः (बहु०)। स्मरभूः = स्मर+ भू+क्विप् ( उपपद०)। अकल्पि= कृप्+लुङ् (कर्ममें )+त। आशी:कपटात् =आशिषः कपटः, तस्मात् (ष० त०)। अवादि=वद+ लुङ् ( कर्ममें )+त / आलिवर्गः आलीनां वर्गः (प० त०)। आनन्दमन्दाक्षयोः=