________________ 74 नैषधीयचरितं महाकाव्यम् व्याख्या-हे स्मर-हे काम ! भगवतः अपि हरस्य अपि, भवदहनश्रमः =त्वद्भस्मीकरणपरिश्रमः, दुरितैः समभवत्पापैः सह, अफलीकृतः निष्फलीकृतः। अफलीकरणं प्रतिपादयति-सुरहितायेति / सुरहिताय =देवकल्याणाय, हुताऽऽत्मतनुः=आहुतीकृतस्वशरीरः, त्वमिति शेषः / तत्क्षणं तस्मिन्नेव काले, दिवि=स्वर्गे, पुनः=भूयः, जनुः=जन्म, आपिथ-प्राप्तवान्, ननु खलु। अनुवाद-हे काम ! भगवान् महादेव भी तुम्हें जलानेमें परिश्रम, तुम्हारे पापोंके साथ निष्फल किया गया, जो कि देवताओंके हितके लिए अपने शरीरकी आहुति देते हुए तुमने उसी क्षण स्वर्ग में फिर जन्म पा लिया। __ टिप्पणी-भवद्दहनश्रमः= भवतो दहनं (10 त० ), तस्मिन् श्रमः ( स० त०), अफलीकृतः= अविद्यमानं फलं यस्य सः अफल: ( नब्बहु ), अफलम् अफलं यथा सम्पद्यते तथा कृतः, अफल+वि+ + क्त / सुर. हिताय सुरेभ्यो हितं, तस्मै (च० त०)। हुताऽऽत्मतनुः=आत्मनस्तनुः (10 त०), हुता आत्मतनुर्येन सः ( बहु० ) / तत्क्षणं=तं च तं क्षणं, "कालाध्वनोरत्यन्तसंयोगे" इससे द्वितीया / "अत्यन्तसंयोगे च" इससे द्वितीया. तत्पुरुष / आपिथ आप्ल+लिट् + सिप् ( थल् ) / हमारे अभाग्यसे देवताओंसे प्रार्थित महादेवसे भस्मीभूत होकर तुमने शीघ्र ही स्वर्गमें फिर जन्म पा लिया, यह तात्पर्य है // 9 // विरहिणो विमुखस्य विषूदये शमनदिक्पवनः स न दक्षिणः / सुमनसो नमयन्नटनी धनुस्तव तु बाहुरसौ यदि दक्षिणः // 66 // अन्वयः-(हे शूर ! ) तव असो बाहुः विधूदये सुमनसः धनुः अटनी नमयन् दक्षिणः स्यात् यदि ( तदा ) विमुखस्य विरहिणः सः शमनदिक्पवनः दक्षिणः न / व्याख्या-( हे शूर.! .) तव =भवतः, असो=अयं, बाहुः = भुजः, विधूदये= चन्द्रोदये, सहायलामे सतीति शेषः / सुमनसः = पुष्पम् एव, धनुः= चापम्, अटनो=कोटी, नमयन् =नम्रीकुर्वन्, दक्षिणः कुशलः, विरहिजनप्रहार इति शेषः / स्यात् यदि=भवेच्चेद, सव्येतरश्चेति ध्वनिः / तदा विमुखस्य पराङ्मुखस्य, चन्द्रोदयाद्विह्वलमुखस्येति भावः। विरहिणः= वियोगिजनस्य, सः प्रसिद्धः, दक्षिणत्वेनेति शेषः / शमनदिक्पवनः यमदिशा