________________ नैषधीयचरितं महाकाव्यम् ___ अन्वयः-(हे काम ! ) इतराऽमरवत् सुधां धयन् अपि त्रिनयनात् कथं तां दशाम् आपिथ ? भण / ( अथवा ) रतेः अधरस्य रसाऽऽदरात् आत्तघणः ( सन् ) अमृतं न अपिबः खलु ? व्याख्या-(हे काम ! ) इतराऽमरवत् = अन्यसुरवत्, सुधाम् = अमृतं, धयन् अपि - पिबन् अपि, त्रिनयनात्-हरात, कथं =केन प्रकारेण, तां= तादृशी, दशाम् =अवस्थां, मरणरूपामिति भावः / आपिथप्राप्तोऽभूः, भण= वद / ( अथवा ) रते: स्वप्रियायाः, अधरस्य - ओष्ठस्य, रसाऽऽदरात्== आस्वादसम्मानात, आत्तघणः-गृहीतजुगुप्सः सन्, अमृत इति शेषः / अमृतं = सुधां, न अपिबः, न पीतवान्, खलु =निश्चयेन / अमृतपाने कथमन्येऽनमरेषु त्वमेको मृत इति भावः / ___ अनुवाद -(हे कामदेव ! ) और देवताओंके समान अमृतको पीते हुए भी तुमने महादेवसे कैसे वैसी अवस्था( मृत्यु )को प्राप्त किया ? कहो / अथवा अपनी पत्नी रतिके अधरके आस्वादके सम्मानसे अमृतमें घृणा करते हुए तुमने अमृत नहीं पीया क्या ? टिप्पणी-इतराऽमरवत् = इतरे च ते अमराः ( क० धा० ), तस्तुल्यम्, इतराऽमर+वति / धयन् = "धेट पाने" धातुसे लट् ( शतृ )+सु / त्रिनय. नात्-त्रीणि नयनानि यस्य सः, तस्मात् ( बहु० ) / . आपिथ=आप+ लिट् +थल, क्रादिनियमसे इट् / रसादरात =रसे आदरः, तस्मात् ( स० त०)। आत्तघृणः = आत्ता घृणा येन सः (बहु०)। "घृणा जुगुप्साकृपयोः" इति वैजयन्ती / अपिबः= "पा पाने" धातुसे लङ्+सिप् // 82 // भूवनमोहनजेन किमेनसा तव परेत ! बमव पिशाचता ? | यवना विरहाऽऽधिमलीमसामभिमवन्धमसि स्मर ? महिषाम् // 83 // अन्वयः-हे परेत ! तव भुवनमोहनजेन एनसा पिशाचता बभूव किम् ? हे स्मर ! यत् अधुना विरहाऽऽधिमलीमसा मद्विधाम् अभिभवन् भ्रमसि / व्याख्या-हे परेत हे प्रेत ! तव-भवतः, भुवनमोहनजेन = लोकाचेतनीकरणजन्येन, एनसा = पापेन, पिशाचता = पिशाचभावः, बभूव कि=जाता किम् ? कुतः-हे स्मर-हे कामदेव ! यत् =यस्मात्कारणात्, अधुना=सम्प्रति, विरहाऽऽधिमलीमसा=वियोगव्याधिमलिनां, मद्विधां= मादृशीम् अबलाम्, अभिभवन् पीडयन्, भ्रमसि भ्रमणं करोषि /