________________ 20 नैषधीयचरितं महाकाव्यम् निष्फलाविति भावः / इति=इत्थं, यदा यदा = यस्मिन् यस्मिन् समये, चित्ते = मनसि, कुरुते विधत्ते, विमृशतीति भावः / तदा = तस्मिन् तस्मिन् समये, परिवेषकतवात् =परिधिच्छलात्, भानो:= सूर्यस्य, विधोः अपि = चन्द्रमसः अपि, कुण्डलनां - वैयर्थ्यसूचकं रेखामण्डलं, तनोति = विस्तारयति // 14 // ____अनुवादः- ब्रह्माजी नलके तेजकी और उनकी कीर्तिकी स्थितिमें ये ( सूर्य और चन्द्र ) व्यर्थ हैं ऐसा जब-जब विचार करते हैं तब-तब परिवेष ( मण्डल) के छलसे सूर्य और चन्द्रकी कुण्डलता ( घेरे ) को फैला देते हैं // 14 // टिप्पणी-तदोजसः = तस्य ओजः, तस्य (ष० त० ) / तद्यशसः = तस्य यशः, तस्य (10 त०)। स्थितौ = स्था+क्तिन् + ङि / यदा = यस्मिन् काले, "सर्वकान्यकियत्तदः काले दा" इस सूत्रसे यद् शब्दसे दा प्रत्यय / तदा = तस्मिन् काले, पूर्वकथित सूत्रसे तद् शब्दसे दा प्रत्यय / परिवेषकैतवात् = परिवेषस्य कतवं, तस्माद (ष० त० ), हेतुमें पञ्चमी / “परिवेषस्तु परिधिरुपसूर्यकमण्डले।" इत्यमरः / तनोति = "तनु विस्तारे" इस धातुसे लट् + तिम् / यहाँपर प्रसिद्ध उपमानभूत सूर्य और.चन्द्रकी निष्फलताका अभिधान होनेसे प्रतीप अलङ्कार है, जैसा कि साहित्यदर्पणमें उसका लक्षण है- "प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् / निष्फलत्वाऽभिधानं वा प्रतीपमिति कथ्यते // " 10-113 / इसी तरह यहाँपर प्रस्तुत परिवेषका निषेध कर कुण्डलनाका स्थापन करनेसे अपह नुति भी है। इस प्रकार दो अलङ्कारोंकी निरपेक्षतासे स्थिति होनेसे संसृष्टि अलङ्कार है // 14 // अयं दरिद्रो भवितेति वैषसी लिपि ललाटेर्थिजनस्य जाप्रतीम् / मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिदरिद्रतां नृपः // 15 // अन्वयः-अल्पितकल्पपादपो नृपः अथिजनस्य ललाटे "अयं दरिद्रो भविता" इति जाग्रती वैधसी लिपि दारिद्यदरिद्रतां प्रणीय मषा न चक्रे // 15 // नलस्य दानशोण्डत्वं श्लोकद्वयेन प्रतिपादयति--अयमिति / व्याख्या- अल्पितकल्पपादपः = अल्पीकृतकल्पवृक्षः, नृपः = नैषधः, अधिजनस्य = याचकजनस्य, ललाटे = भाले, अयम् = एषः, जनः = नरः, दरिद्रः= निःस्वः, भविता: = भविष्यति, इति = इत्यं, जाग्रती = सदा स्थितां, वैधसी = ब्रह्मसम्बन्धिनी, लिपि = लिबि, वर्णावलीमिति भावः, दारिदरिद्रता -