________________ नैषधीयचरितं महाकाव्यम् स्थितिः" इत्यमरः / स्थितिविरोधं करोतीति तद्धेतुः, ताम् / स्थितिविरोध + कृ+ट+डीप् + अम् ( उपपद०)। अधीरतांन धीरा अधीरा ( नञ्० ), तस्या भावः तत्ता, ताम्, अधीर+तल् +टाप् + अम् / दयितदूतपतद्गतिवेगतः=दयितस्य दूतः ( 10 त०), स चाऽसौ पतत् (क० धा०), "पतत्पत्त्ररथाऽण्डजाः" इत्यमरः / दयितदूतपततः गतिः (10 त०), तस्या वेगः (10 त०), तस्मात् / दयितदूतपतद्गतिवेग+तसिः / अधीतवती=अधि+ इ + क्तवतु + डीप् / यदनन्तरः यस्य अनन्तरः (10 त०) / तदुदितः तस्मात् उदितः (10 त०)। इस पद्यमें उत्प्रेक्षा और अर्थान्तरन्यासका अङ्गाङ्गिभावसे सङ्कर है // 3 // अतितमा समपादि जडाशयं स्मितलवस्मरणेऽपि तदाननम् / अजनि पागुरपाङ्गनिजाणणभ्रमिकणेऽपि तदरीक्षणखानः // 4 // अन्वयः-तदाननं स्मितलवस्मरणेऽपि अतितमा जडाशयं समपादि / तदी. क्षणखञ्जनः अपाङ्गनिजाऽङ्गणघ्रमिकणे अपि पगुः अजनि / व्याख्या-तदाननंदमयन्तीमुखं, स्मितलवस्मरणेऽपि-मन्दहासलेशस्मृ. तावपि, अतितमाम् =अतिमात्र, जडाशयंमूढाऽभिप्रायं, समपादि=सम्पन्न, हासलेशप्रकाशनेऽप्यनभिज्ञं जातमिति भावः / तथा च तदीक्षणखञ्जन:दमयन्तीनेत्रखजरीटः, अपाङ्गनिजाऽङ्गणभ्रमिकणेऽपि नेत्रप्रान्तस्वचत्वरभ्रमणलेशेऽपि, पङ्गुः=असमर्थः, अनि =जातः / कामज्वरवेगाहमयन्त्याः स्मितकटाक्षनिरीक्षणे लुप्तप्राये सजाते इति भावः / अनुवाद-दमयन्तीका मुख मन्दहास्यके लेशमात्रके स्मरणमें भी अत्यन्त जड आशयवाला हो गया और उनके नेत्ररूप खञ्जनपक्षी अपाङ्गरूप अपने आंगन में भ्रमणके लेशमें भी असमर्थ हो गये। टिप्पणी-तदाननं तस्या आननम् (10 त०)। स्मितलवस्मरणेस्मितस्य लवः (10 त०), तस्य स्मरणं, तस्मिन् (10 त० ) / जडाशयं =जड आशयो यस्य तत् ( बहु० ) / दमयन्तीका मुख थोड़ेसे मन्दहास्यके स्मरणमें भी जड हो गया, करने में फिर क्या कहना? यह अभिप्राय है। समपादि=सं+पद+लुङ्+त (कर्तामें ) / तदीक्षण. खञ्जनः= ईक्षणम् एव खञ्जनः (रूपक०), "खजरीटस्तु खञ्जनः"